________________
कारि० ४-७]
१. प्रमाणप्रवेशः स्मृतिहेतुर्धारणा संस्कार इति यावत् । ईहा-धारणयोरपि ज्ञानात्मकत्वमुग्नेयं तदुपयोगविशेषात् ।
[७. इदानीं स्वसंविदामपि बह्वादिभेदमवग्रहादिकम् अवग्रहादीनाश्च पूर्वपूर्वस्य प्रमाणत्वे फलत्वमुत्तरोत्तरस्य दर्शयन्नाह-]
बहाद्यवग्रहाद्यष्टचत्वारिंशत्स्वसंविदाम् ॥६॥
पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोत्तरम् । परमार्थैकसंवित्तेर्वेद्यवेदकाकारयोः प्रमाणफलव्यवस्थायां क्षणभङ्गादेरपि प्रत्यक्षत्वं प्रसज्येत । ततः किम् ? गृहीतग्रहणात् संवृतिवत्तदनुमानं प्रमाणं न स्यात् । तदनयोः समारोपव्यवच्छेदाविशेषात् संवृतेरपि प्रमाणान्तरत्वं स्यात् । सर्वस्यैव निर्विकल्पकज्ञानस्य समारोपव्यवच्छेदाकासिग्णः प्रमाण्यं न स्यात् ततः संव्यव- 10 हाराभावात् । अर्थक्रियार्थी हि प्रमाणमप्रमाणं वाऽन्वेषते। रूपादिक्षणक्षयादिस्फुटप्रतिभासाविशेषात् खण्डशः प्रामाण्यं यदपेक्षं तदेव फलं युक्तम् । तत्त्वतस्तत्कृतो न भवति, भावे वा निर्णीतिः अखण्डशः कुतो न भवेत् ? बहुबहुविधक्षिप्रानिसृताऽनुनधुवेतरविकल्पानामवग्रहादेः स्वभावभेदान विरुद्ध्यते । प्रतिभासभेदेपि खभावभेदाभावकल्पनायां क्रमवृत्तिधर्माणामपि तथा भावात् कुतः क्रमः सुख- 15 दुःखादिभेदो वा परमार्थतः प्रतिष्ठापयेत् सहप्रतिभासवत् ? तदयमेकमनेकाकारं क्षणिकज्ञानं कुतश्चित्प्रत्यासत्तेः प्रतिभासभेदानामुपयन् क्रमवर्तिनामपि तथैकत्वं प्रतिपत्तुमर्हति हर्षविषादादीनाम् , अतोऽनेकान्तसिद्धिः। प्रमाणफलयोः क्रमभेदेऽपि तादात्म्यमभिन्न विषयत्वञ्च प्रत्येयम् ॥६॥ इति भट्टाकलङ्कविरचिते न्यायकुमुदचन्द्रोदये (? लघीयस्त्रये) प्रमाणप्रवेशः (शे) प्रथमः परिच्छेदः। 20
प्रमाणप्रवेशे द्वितीयः प्रमेयपरिच्छेदः।
[८. समीचीनश्च विषयः प्रमाणस्य यादृशो भवति तं दर्शयन् प्रकृतमर्थश्चोपसंहरन्नाह-]
तद्रव्यपर्यायात्मार्थो बहिरन्तश्च तत्त्वतः ॥७॥ भेदाभेदैकान्तयोरनुपलब्धः अर्थस्य सिद्धिरनेकान्तात् । नान्तर्बहिर्वा खल
१ 'प्रमाणं' नास्ति ई० । २-तस्तत्ततो इत्यपि पाठः न्यायकु० । ३ विरुद्धचेत् ज० । ४ क्रमभावेऽपि न्यायकू०। ५ इति प्रत्यक्षप्रतिपादकः प्रथमः परिच्छेवः सम्पर्णः। ई०। ज०. प्रत्योः सन्धिवाक्येषु क्वचित् न्यायकुमुदचन्द्रस्य न्यायकुमुदचन्द्रोदयस्य वोल्लेखः लघीयस्त्रयव्याख्याभूतस्य प्रभाचन्द्रकृतन्यायकुमुदचन्द्रस्य भूमादेव जातः । -सम्पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org