________________
लघीयत्रये
[१ प्रत्यक्षपरि० श्चित्करस्य च ज्ञानस्य भावाविरोधात् । ६१) "नहि तत्त्वज्ञानमित्येव यथार्थनिर्णयसाधनम्" इत्यपरः, तेनापि तत्त्वनिर्णयं प्रति साधकतमस्य ज्ञानस्यैव प्रामाण्यं समर्खेत वस्तुबलायाततदर्थान्तरस्यापि परम्परया तत्कारणतोपपत्तेः। तनाऽज्ञानस्य प्रमाणता
अन्यत्रोपचारात् । ज्ञानस्यैव विशदनिर्भासिनःप्रत्यक्षत्वम् , इतरस्य परोक्षता ॥३॥ 5 [४. के पुनर्बुद्धेर्वेशद्यावैशये यदुपेतत्वेन प्रत्यक्षतरयोर्भेदः स्यादिति चेदुच्यते-]
अनुमानाद्यतिरेकेण विशेषप्रतिभासनम् ।
तद्वैशद्य मतं बुद्धेरवैशद्यमतः परम् ॥४॥ तत्र सांव्यवहारिकम् इन्द्रियानिन्द्रियप्रत्यक्षम् । मुख्यमतीन्द्रियज्ञानम् । तदस्ति सुनिश्चितासम्भवद्भाधकप्रमाणत्वात् सुखादिवत् । यावज्ज्ञेयव्यापिज्ञान10 रहितसकलपुरुषपरिषत्परिज्ञानस्य तदन्तरेणानुपपत्तेः । तदभावतत्त्वज्ञो न कश्चिद
नुपलब्धेः खपुष्पवत् । नवै जैमिनिरन्यो वा तदभावतत्त्वज्ञः सत्वपुरुषत्ववक्तत्वादेः रथ्यापुरुषवत् । पुरुषातिशयसम्भवे अतीन्द्रियार्थदर्शी किन स्यात् ? अत्राऽनुपलम्भमप्रमाणयन् सर्वज्ञादिविशेषाभावे कुतःप्रमाणयेत् अभेदात् ? साधक
बाधकप्रमाणाभावात् तत्र संशीतिः इत्यनेन प्रत्युक्ता; बाधकस्यैवाऽसम्भवात् । 15 सर्वत्र बाँधकाभावेतराभ्यां भावाभावव्यवहारसिद्धिः, तत्संशयादेव सन्देहः । तत एवानुभवप्रामाण्यव्यवस्थापनात् इत्यलमतिप्रसङ्गेन ॥४॥
[६५. ननु च इन्द्रियाऽनिन्द्रियप्रत्यक्षस्य वर्तमानमात्रपर्यवसितत्वेन हेयोपादेयाऽविषयत्वात् कथं संव्यवहारनियुक्तत्वमित्यारेकायामाह-]
अक्षार्थयोगे सत्तालोकोकिारविकल्पधीः।
अवग्रहो विशेषाकाहाऽवायो विनिश्चयः ॥५॥ विषयविषयिसनिपातानन्तरमाद्यं ग्रहणम् अवग्रहः । विषयस्तावत् द्रव्यपर्यायात्मार्थः विषयिणो द्रव्य-भावेन्द्रियस्य । द्रव्येन्द्रियं पुद्गलात्मकम् । लब्ध्युपयोगी भावेन्द्रियम् । * अर्थग्रहणशक्तिर्लब्धिः । उपयोगः पुनरर्थग्रहणव्यापारः ।*
अर्थग्रहणं योग्यतालक्षणम् । तदनन्तरभूतं सन्मात्रदर्शनं स्वविषयव्यवस्थापनविक25 ल्पमुत्तरपरिणामं प्रतिपद्यते अवग्रहः। पुनः अवगृहीतविशेषाकावणम् ईहा । तथेहितविशेषनिर्णयोऽवायः । कथश्चिदभेदेऽपि परिणामविशेषाद्भेदः ॥५॥ [६६. अवायानन्तरं धारणामुक्त्वा चतुर्विधमतिज्ञानमुपसंहरन् कारिकार्धमाह-]
धारणा स्मृतिहेतुस्तन्मतिज्ञानं चतुविर्धम् । १ कारिकेयं ज० प्रतौ नास्ति । २ तत्रा- ज० । ३ बाधकभावे- ज० । * एतदन्तर्गतः पाठो नास्ति ज०। ४ अवग्रहगृहीत- ई०।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org