________________
श्रीमद्भट्टाकलङ्कदेवविरचितम्
स्वोपज्ञविवृतिसहितम्
॥ल घी य स्त्रयम् ॥
प्रमाणप्रवेशे प्रथमः प्रत्यक्षपरिच्छेदः।
-
८
5
[$ १. तत्र शास्त्रस्यादौ शास्त्रकारो निर्विघ्नेन शास्त्रपरिसमाप्त्यादिकं फलमभिलषन्निष्टदेवताविशेषं नमस्करोति-]
धर्मतीर्थकरेभ्योऽस्तु स्याद्वादिभ्यो नमोनमः।
ऋषभादि-महावीरान्तेभ्यः स्वात्मोपलब्धये ॥१॥ [६२. स्वप्रमाणादिलक्षणवर्मनि कण्टकशुद्ध्यर्थं निराकुर्वन्नाह-]
सन्तानेषु निरन्वयक्षणिकचित्तानामसत्स्वेव चेत्, तत्त्वाहेतुफलात्मनां स्वपरसङ्कल्पेन बुद्धः स्वयम् । सत्त्वार्थव्यवतिष्ठते करुणया मिथ्याविकल्पात्मकः , स्यान्नित्यत्ववदेव तत्र समये नार्थक्रिया वस्तुनः ॥२॥
३. स्वमते प्रमाणादिलक्षणप्ररूपणार्थमिदमुपक्रमते......."अक्षुण्णसकलशास्त्रार्थ- 10 समहसमर्थमादिश्लोकमाह-]
प्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः ।
परोक्षं शेषविज्ञानं प्रमाणे इति सङ्ग्रहः ॥३॥ सत्रिकर्षादेरज्ञानस्य प्रामाण्यमनुपपन्नम् अर्थान्तरवत् । नैवै 'ज्ञानम्' इत्येव प्रमाणम् अतिप्रसङ्गात् , संव्यवहारानुपयोगिनः संशयविपर्यासकारणस्य अकि- 15
१ वृषभा- न्यायकु० । २ नविज्ञान- ज० । ३-विपर्यय- न्यायकु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org