SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ १६ 10 कुमारपालचरित्रसङ्ग्रहः ६६११. तत्र पूर्वप्रतिपन्नमातुलस्य द्विजन्मनः । गृहे मुक्त्वा स्वकुटुम्बं एकाकी पत्तने ययौ ॥२०१॥ गत्वाऽऽवासे कृष्णभटदेवस्य भगिनीपतेः । रात्रौ ननाम कुमरो भगिनीं प्रेमलदेविकाम् ॥२०२।। भ्रातेति प्रत्यभिज्ञाय तयापि स्नापितः स्वयम् । स्नाननीरे वीक्ष्य स्नातां दुर्गा शाकुनिकोऽवदत् ॥२०३॥ सप्ताहान्तं भवान् राजा प्रमाणं शकुनो यदि । तदाकर्ण्य भगिन्यापि विज्ञप्तं पत्युरात्मनः ।।२०४।। मण्डलेशः कृष्णदेवः कुमारं परिरभ्य तम् ।। तवैव राज्यं नान्यस्य माविषीदेत्युवाच सः ॥२०५।। महीतटदेशाधीशं विजयपालराणकम् । मित्रमाकार्य कृष्णेन पर्यालोचः कृतस्ततः ॥२०६।। अग्रे प्रधानैश्चौलुक्यौ द्वौ स्तो राज्यार्थमाहूतौ । महीपाल-रत्नपालौ राज्यं त्वस्यैव मे मतिः ॥२०७।। द्वितीयेऽह्नि प्रधानानां ज्ञापयित्वेति तौ ततः । आजुहावतुः कुमार श्रीजयसिंहमेरुके ॥२०८॥ ततः प्रधानैः सम्भूय पूर्व राज्यार्थमाहूतः । महीपालस्तान् नत्वाऽऽह दत्तादेशं करोमि किम् ? ॥२०९।। तं विसृज्य रत्नपालस्तैराहूतो महेश्वरम् । प्रणम्य सचिवादींश्च प्राञ्जलिः प्राह पूर्ववत् ।।२१०।। विसृष्टः सोऽप्यथाहूतः कुमारपाल ईश्वरम् । नत्वा सहेलमावर्योत्तरीयाञ्चलसञ्चयम् ।।२११।। तानाह्वास्ताभिषेकाय मृगेन्द्रासनमास्थितः । ततः कृष्णादिभिः प्रोचे परामर्श विमुच्य भोः ! ॥२१२।। अत्रार्थे मा विलम्बध्वं कार्य चेज्जीवितेन वः । तद्भीतैस्तैस्तथा चक्रे कुमारगुणरञ्जितैः ।।२१३।। मौक्तिकसेतिका क्षिप्ता तच्छीर्षेऽभूत् सपल्लिका । कृष्णभटदेवमुख्यैस्ततो राजेत्यसौ नतः ॥२१४|| 15 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy