________________
कुमारपालदेवचरितम् ।
Jain Education International
राज्येऽहमपि चूतानां करं मोक्ष्ये स्वनीवृति ।
विचिन्त्येति कुमारोऽगात् कासी ( शीं) निर्भरवेषभृत् ॥१८७॥ भ्रमन्नेकेन वणिजा वस्त्राद्यैः सत्कृतः कृती । द्वितीयेऽह्नि लुण्ट्यमानं तद्गृहं वीक्ष्य दुःखितः ॥१८८॥ कञ्चित् पप्रच्छ किमिदं सोचेऽद्यापुत्रको वणिक् । मृतोऽसौ तद्गृहं तेन लुण्ट्यते राजपूरुषैः ॥ १८९॥ कुमारोऽचिन्तयदसौ धिग् ! राज्यं यदपुत्रिणाम् । म्लेच्छानामिव सर्वस्वं राजा गृह्णाति पुत्रवत् ॥ १९०॥ राज्ये नाहं ग्रहीष्यामि स्वदेशे स्वमपुत्रिणाम् । प्रतिज्ञायेति कुमारो गतः पाटलीपुत्रके ॥१९१॥ ततो राजगृहे याते वीक्ष्य वैभारपर्वतम् । श्रुत्वा समवसरणस्थानान्येष विसिष्मये ॥ १९२॥ नवद्वीपकदेशेषु गत्वा जयपुरं ययौ । ततोऽपि कामरूपेऽगात् कामाक्षेक्षणकौतुकी ॥१९३॥ ततोऽगात् तत्र यत्रास्ति सर्परूपेण भूपतिः । भौतिकं दैविकं चापि यद्राज्ये न भयं भवेत् ॥१९४॥
कुमारोऽगाच्चर्म्मकारबालचण्डापणेऽन् ऽन्यदा । उपानदर्थं तेनापि सादरं पूर्वनिम्मितम् ॥१९५॥
प्रधानमुपानयुग्मं कुमारः परिधावितः । एतन्मूल्यं न मेऽस्त्यूचे, चर्मकारस्ततोऽवदत् ॥१९६॥
उपानद्युगलमेतत् युज्यते तव पादयोः ।
मूल्येनालं तव स्वामिन् ! मङ्गलीके ( माङ्गलिके) मया कृतम् ||१९७||
हृष्टस्तच्छुभवाक्येन शुश्राव कुमरस्तदा ।
पत्तने पादुकाराज्यं मरणात् सिद्धभूभृतः ॥ १९८॥
१५
कुमारपालभूपालं शृणोषि पत्तने यदा । शीघ्रमेयास्तदामन्त्र्य मोचिकं कुमरस्ततः ॥ १९९॥ उज्जयिन्यां सानुचरो गत्वाऽखण्डप्रयाणकैः । कन्नालीसिद्धपुरेऽगाल्लात्वाशेषकुटुम्बकम् ॥ २००॥
For Private & Personal Use Only
5
10
15
20
25
www.jainelibrary.org