________________
5
१४
10
15
20
25
Jain Education International
कुमारपालचरित्रसङ्ग्रहः
अथापसृत्य राज्ञाऽपि प्रेषिता गूढपूरुषाः । समर्प्य प्राभृतं तस्याः प्रोचुः स्वामिनि ! नः प्रभुः ॥१७४॥ जित्वा चित्राङ्गदं दुर्गं जिघृक्षुस्त्वत्प्रसादतः । तत् प्रसीदादिशोपायं साऽपि हृष्टा जगाद तान् ॥१७५॥ सर्वाः प्रतोलीरुद्घाट्य पूरितार्थिमनोरथः । भुङ्क्ते चित्राङ्गदो नित्यमागन्तव्यं तदा त्वया ॥१७६॥ विवृणोमि गवाक्षस्था यदा केशानहं तदा । ज्ञेया भोजनवेलाऽथ तं ज्ञात्वा शम्भलीशकः ॥ १७७॥ बर्करीगणिकाभेदात् द्वितीये जगृहेऽह्नि तम् । दुर्गतश्च चित्राङ्गदो गृहीत्वा स्वर्णपूरुषम् ॥१७८॥ क्षीरकूपे ददौ झम्पां तच्छ्रुत्वा शम्भलीशराट् । क्षीरकूपाज्जलं कृष्ट्वा दृष्ट्वा तं स्वर्णपूरुषम् ॥ १७९॥ यावत् कर्षयते तावत् पुनः पूर्णः स कूपकः । विलक्षः सोऽथ चित्राङ्गसुतं वाराहगुप्तकम् ॥१८०॥ संस्थाप्य च स्वयं राज्ये कन्यकुब्जं पुनर्गतः । स्वाभार्याग्रेऽपठद्दुर्गं (?) भद्रो वादीश्वरोऽन्यदा ॥ १८१ ॥ 'चित्रकूटमिदं भद्रे ! पृथिव्यामेकलोचनम् । द्वितीयलोचनस्यार्थे तपस्तपति मेदिनी ॥ १८२॥'
कुमारः सपरीवारस्तच्छ्रुत्वाऽऽरुह्य तं नगम् । विस्मितः सर्वतो वीक्ष्य दिग्नागान् सञ्जगाद च ॥१८३॥ शैलाः सर्वे गण्डशैलानुकाराः वृद्धा ग्रामाः क्षामधामोपमानाः । कुल्यातुल्याः प्रौढसिन्धुप्रवाहाः सन्दृश्यन्ते दूरतो ऽत्राधिरूढैः ॥१८४॥
६६१०. ततस्तदीक्षासोत्कण्ठः कन्यकुब्जपुरं ययौ । चूतानां लक्षशो वीक्ष्य लक्षारामान् सविस्मयः || १८५|| पप्रच्छ कञ्चित् किं चूता दृश्यन्ते गणनातिगाः । सोऽप्यूचे न करोऽत्रास्ति चूतानां तद् धना अमी || १८६ |
For Private & Personal Use Only
www.jainelibrary.org