SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ कुमारपालदेवचरितम् । तथाप्यभङ्गुरोत्साहं नृपं कूटाचलाधिपः । उवाच माग्राम्य (मा कृथा) दुर्गमत्र कर्तुं न कोऽप्यलम् ॥१६१ ॥ प्राणात्ययेऽपि कर्ताऽस्मि नृपेणोक्ते सुरोऽब्रवीत् । यद्येवं निश्चयस्तर्हि कुरु चित्रनगोपरि ॥ १६२॥ दुर्गस्य नाम मध्ये तु देयं मे नाम भूपते ! । ततश्चित्राङ्गदश्चक्रे दुर्गं चित्रनगोपरि ॥ १६३ ॥ चित्रकूटेति दत्ताख्यं देवेन तदधिष्ठितम् । कोटीध्वजानां यन्मध्ये सहस्राणि चतुर्द्दश ॥ १६४ ॥ लक्षेश्वराणां योग्या च कारिता तलहट्टिका । वापीकूपसरोमुख्यं शेषं देवेन निम्मितम् ॥१६५॥ §§९. इतश्च स्वर्णपुरुषं सिद्धं चित्राङ्गदस्य तम् । Jain Education International ग्रहीतुं कन्यकुब्जेशः शम्भलीशनृपो बली ॥१६६॥ अरोत्सीद् दुर्गमागत्य ततश्चित्राङ्गदोऽपि हि । नियन्त्रितपुरद्वारो लसत्युपरि निर्भयः ॥१६७॥ चाराः कौरिकवेषेण वर्षेः कतिपयैः पुरम् । प्रविश्य शुश्रुवुर्वा गृहे शुल्काधिकारिणः || १६८|| गवाक्षस्था मन्त्रिपुत्री लालयन्ती सुतं निजम् । भाषते तात ! किं नैते मुच्यन्ते वणिजारकाः ॥ १६९ ॥ हसित्वा तत्पिताहैते न वत्से ! वणिजारकाः । शम्भलीशचमूरेषाऽवात्सीद् दुर्गजिघृक्षया || १७० ।। वत्से ! जन्म यदा तेऽभूत् तदेदं सैन्यमागतम् । त्वमूढा पुत्रवती वत्से ! जाता चैतत् तथैव तु ॥ १७१ ॥ तच्छ्रुत्वा शम्भलीशोऽपि ससैन्यो दुर्गगोपुरे । प्रोक्तो गवाक्षस्थबर्करीवेश्यया यतः ॥ १७२ ॥ गण्डूपदः किमधिरोहति मेरुशृङ्गं किं वा खेरजगरो निरुणद्धि मार्गम् । शक्येषु वस्तुषु बुधाः श्रममारभन्ते दुर्गग्रहग्रहिलतां त्यज शम्भलीश ! ॥१७३॥ For Private & Personal Use Only १३ 5 10 15 20 25 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy