________________
कुमारपालचरित्रसङ्ग्रहः उवाच मन्त्री ज्ञाप्योऽहं यदा तत्र व्रजेन्नृपः । ततो यथोक्तवेलायां खड्गव्यग्रकरो नृपः ॥१४७।। एकाकी निर्ययौ छन्नो राजा ज्ञात्वा च मन्त्र्यपि । दक्षो नरेन्द्रक्षार्थं नृपेणालक्षितोऽन्वगात् ॥ १४८।। नृपोऽपि चित्रशैलाग्रमारूढो वीक्ष्य योगिनम् । व्याघ्रं च होमसामग्री ततोऽजल्पत् करोमि किम् ॥१४९।। रक्षार्थं होमसामग्र्या मुक्त्वा तत्र नरेश्वरम् । योगी जलार्थं सव्याघ्रः क्षीरकूपं गतः स्वयम् ॥१५०।। इतश्च प्रकटीभूय नत्वोच्चैर्मन्त्रिणा नृपः । देवोपकरणैरेभिः साध्यते स्वर्णपूरुषः ॥१५१॥ तत्तं सिसाधिषुर्योगी होमित्वा त्वत्तनु ध्रुवम् । ततो यतस्व रक्षायै इत्युक्त्वाऽन्तरितोऽथ सः ॥१५२॥ राज्ञा सह ततः स्नात्वा जलमानीय योगिना । विलेपनैर्विलिप्याङ्गं होमार्थं ज्चालितोऽनलः ॥१५३।। उक्तश्च राजा-'त्वं देव ! प्रतिपन्नैकवत्सलः । तदस्य वह्निकुण्डस्य देहि प्रदक्षिणात्रयम् ॥१५४॥' राजा सशङ्कस्तं प्राह-'त्वं योगिन् ! अग्रतो भव ।' ततो योगी तथा कुर्खन्न च्छलं प्राप भूपतिः ॥१५५॥ अथ व्यावृत्य सहसा नृपं यावज्जुहोति सः । तावन्नृपेन्द्र-मन्त्रिभ्यां स एवाग्नौ हुतो हठात् ॥१५६।। व्याघ्रोऽप्यनुप्रविष्टस्तं जातोऽथ स्वर्णपूरुषः । सम्पूज्य तं गृहीत्वा च राजाऽगात् मध्यमां पुरीम् ॥१५७॥' यच्छन् यथेच्छं द्रविणं ख्याति स प्राप सर्वतः । ततः ऋद्धिरक्षार्थमादिदेशेति मन्त्रिणे ॥१५८॥ यथा चित्रगिरेः पार्वे कूटशैलोऽस्ति दुर्गमः । तस्योपरि महादुर्गं कारयाभङ्गुरोद्यमः ॥१५९।। मन्त्रिणाऽपि तथारब्धे यावच्चेचीयते दिवा । तावन्निपतति रात्रौ षण्मासा इति जज्ञिरे ॥१६०॥
15
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org