________________
कुमारपालदेवचरितम् ।
आत्मनो नामसाम्यं च वर्षाणां वीक्ष्य पूर्णताम् । गाथार्थं कुमारोऽपृच्छज्जैनदर्शन(नि)सन्निधौ ।।१३३।। सोऽप्याख्यत्-'पूर्वमत्रासीत् सिद्धसेनदिवाकरः । विक्रमादित्यभूपस्य तेनाऽभ्यर्थनया किल ॥१३४।। द्वात्रिंशद्-द्वात्रिंशिकाभिर्वीतरागः स्तुतस्ततः । कुडङ्गेश्वरलिङ्गं च स्फुटितं तस्य मध्यतः ॥१३५।। आविरभूद्धरणेन्द्रः श्रीपार्श्वप्रतिमाकरः । तं दृष्ट्वा विक्रमादित्यभूजानिः परमार्हतः ॥१३६।। तेनैकदा सिद्धसेनः पृष्टः किं कोऽपि भारते । अतः परं जैनभक्तः सार्वभौमो भविष्यति ॥१३७।। श्रुतज्ञानेन विज्ञाय गाथेयं गुरुणोदिता । राज्ञा च लेखितात्रैव –' तच्छ्रुत्वा कुमारोऽवदत् ॥१३८॥ 'आर्हतानामहो शक्तिरहो ज्ञानमहो व्रतम् ।
अहो परोपकारित्वं किममीषां हि नाद्भुतम् ।।१३९।।' ६६८. ततः सज्जन-भोपल्लदेवी-बोसरिभिः सह ।
धृत्वा निर्भरवेषं स उज्जयिन्या विनिर्ययौ ॥१४०॥ मध्ये दशपुरं भूत्वा चित्रकूटनगं गतः ।। शान्तिचैत्ये श्वेतभिक्षो रामचन्द्रस्य सन्निधौ ॥१४१॥ जातचित्रश्चित्रकूटदुर्गोत्पत्तिमपृच्छत । रामोऽप्यूचे-'इतः क्रोशत्रयेऽभून्मध्यमापुरी ॥१४२॥ तत्र चित्राङ्गदो राजा सोऽन्यदाऽभिनवैः फलैः । योगिना व्याघ्रयुक्तेन षण्मासावधि सेवितः ॥१४३।। पृष्टो हेतू रहो राज्ञा योग्यूचे मन्त्रसिद्धये ।। द्वात्रिंशल्लक्षणवतः सान्निध्यात् तेऽभवच्च सः ॥१४४।। यतः कृष्णचतुर्दश्यां रात्रौ चित्रनगोपरि ।। मम सिद्ध्यति मन्त्रश्चेत् त्वं तत्रोत्तरसाधकः ॥१४५।। ओमित्युक्त्वा नरेन्द्रेण स योगीन्द्रो व्यसृज्यत ।। राजपत्न्यान्तरितया त्वछ्त्वाऽवाचि मन्त्रिणे ॥१४६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org