SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरित्रसङ्ग्रहः तथाकृते तथायाते चैत्यं निर्माप्य भूभुजा । देवस्थाने स्थापितं च शीर्षमेतत् प्रसिद्धये' ॥११९।। तच्छ्रुत्वा विविधाश्चर्यदर्शनाज्जातनिश्चयः । किञ्चित्कालं कुमारोऽपि काञ्च्यां स्थित्वा विनिर्ययौ ।।१२०।। मल्लिनाथजनपदे स्थित्वा कोलम्बपत्तने । सोमनाथेन कोलम्बस्वामी स्वप्ने न्यगद्यत ॥१२१।। ६६६. भविष्यो गूर्जरात्रायाः स्वामी श्वस्तव पत्तने । समेष्यति जटाधारी विधेयं तस्य पूजनम् ॥१२२।। चतसृषु दिक्षु मुक्तैः पुरुषैः पुरसीमनि । यथोक्तलक्षणो वीक्ष्य कुमारो भक्तिपूर्वकम् ।।१२३।। आहूय नृपतेः पार्वे समानिन्ये ततो नृपः । अभ्युत्थाय स्वकीया सने तं स न्यवेशयत् ॥१२४।। निगद्य शम्भोरादेशं राज्ञा राज्ये निमन्त्रितः । निषेध्य कुमारस्तस्य पार्श्वे तस्थौ यथासुखम् ।।१२५।। सोचे(?) तथापि तेऽभीष्टं कुमार ! किं करोम्यहम् । कुमारः प्राह येनात्र ज्ञायते मे समागमः ॥१२६।। दशगव्यूतिविस्तारे कोलम्बपत्तनान्तरम् । भूमीमप्राप्य राज्ञाऽथ सङ्कोच्य निजमन्दिरम् ॥१२७|| कुमारपालेश्वराख्यः प्रासादस्तत्र कारितः । कुमारपालनामाङ्क नाणकं च प्रवर्तितम् ॥१२८|| ६६७. ततः कुमारो निर्याय प्रतिष्ठानपुरं गतः । द्विपञ्चाशद्वीरकूपाद्याश्चर्याणि तु वीक्ष्य सः ॥१२९॥ प्राप्तः क्रमेणोज्जयिन्यां निजस्वजनसन्निधौ । भ्रमंस्तत्रान्यदा यातः कुडङ्गेश्वरमन्दिरे ।।१३०।। प्रणम्य लिङ्गं तन्मध्ये व्याप्तं सप्तफणाङ्करैः । वीक्ष्य प्रशस्ति तन्मध्ये गाथामेतामवाचयत् ॥१३१॥ पुन्ने वाससहस्से सयम्मि वरिसाण नवनवइ अहिए । होही कुमरनरिंदो तुह विक्कमराय ! सारिच्छो ॥१३२॥ 15 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy