________________
कुमारपालदेवचरितम् ।
यतः
ऽन्वहम् ॥१०६॥
पद्मकोशाद् विनिर्गत्य शीर्षमेकं सकुण्डलम् । त्रिः कृत्वो ब्रुडतीत्युक्त्वा निमज्जद् ददृशेऽ तदर्थं पण्डितैः पृष्टैः प्राप्य मासचतुष्टयम् । तद् ज्ञातुं प्रस्थिता विप्राश्चत्वारो वृद्धसन्निधौ ॥१०७॥
यदेकः स्थविरो वेत्ति न तत्तरुणकोटयः । नृपं यो लत्तया हन्ति वृद्धवाक्यात् स पूज्यते ॥ १०८॥ ततो गत्वा मरौ देशे स्थविरः कोऽप्यपृच्छ्यते । स्वपिता दर्शितस्तेन तेनापि स्वपितामहः ॥ १०९ ॥ सविंशतिशतवर्षदेशीयस्यास्य सन्निधौ । विप्रैरप्रच्छि शीर्षस्य ब्रुडतीत्युक्तिकारणम् ॥११०॥ सोऽप्यूचे भोजयित्वा तान् शुनीडिम्भचतुष्टयम् । गृह्णीतेदं महामूल्यं शुद्धयत्यध्वव्ययो यतः ॥ १११॥ लोभाद् विप्रा अपि कटौ कृत्वा तांश्चलनाक्षमान् । व्याघुटन्तं वृद्धमूचुः स सन्देहस्तथैव नः ||११२॥ संशयश्छिन्न एवायमित्युक्ते तेन तेऽभ्यधुः । कथं स ऊचे शास्त्रज्ञा अपि तदपि वित्थ न ॥ ११३ ॥ यत उक्तम्
Jain Education International
श्वानगर्द्दभचाण्डालमद्यमांसरजस्वलाः । स्पृष्ट्वा देवलकं चैव सचेलस्नानमाचरेत् ॥ ११४॥ शास्त्रनिषिद्धः संस्पर्शो विप्राणां युज्यते कथम् ।
प्यूचुर्बहुमूल्यानि वडिम्भानि त्वमप्यधाः ॥११५॥ ततोऽस्माभिर्गृहीतानि लोभाद् विक्रियते न किम् । ऊचे वृद्धस्तदेवेदं विश्वं ब्रुडति लोभतः ॥ ११६॥ इति ते छिन्नसन्देहाः कुमारेहागताः पुनः । पण्डितैः पुस्तकैष्वेष लिखितोऽर्थः सविस्तरः ||११७||
राज्ञोऽदर्शि नृपोऽप्याह सत्यमेतत् शिरो यदि । श्रुत्वैनमर्थं न पुनः सरसो निस्सरिष्यति ॥ ११८ ॥
For Private & Personal Use Only
5
10
15
20
25
www.jainelibrary.org