________________
10
कुमारपालचरित्रसङ्ग्रहः ततः कृष्णचतुर्दश्यां गत्वा पितृवने निशि । शबस्य वक्षसि न्यस्य वह्निकुण्डं स्वयं पुनः ॥९२।। उपविश्य तस्य कट्यां यावत् होमं ददाति सः । करालमूर्तिः प्रत्यक्षस्तावत् क्षेत्राधिपोऽवदत् ॥९३।। मामनभ्यर्च्य रे धृष्ट ! किमारब्धं मुमूर्षुणा । इति श्रुत्वापि निःक्षोभः सोऽपि जापं समापयत् ॥९४।। तदा च भूत्वा प्रत्यक्षा महालक्ष्मीरवोचत । गूर्जरात्राधिपत्यं ते दत्तं वषैस्तु पञ्चभिः ॥९५॥ सिद्धमन्त्रः कुमारोऽथ नत्वा सर्वार्थयोगिनम् । कल्याणकटके देशे क्रमात् काञ्चीपुरी ययौ ॥९६।। पुष्पेषु जातिर्नगरीषु काञ्ची नारीषु रम्भा पुरुषेषु विष्णुः ।
सतीषु सीता द्रुषु कल्पवृक्षो जिनस्तु देवेषु नगेषु मेरुः ॥१७॥ ६६५. कुमारः कौतुकात् तस्मात् भ्रमन् परिसरेऽन्यदा ।
कबन्धमेकमद्राक्षीत् वैरिणापास्तमस्तकम् ॥९८।। ततपार्वे मिलितः स्त्रीणां शुश्रावान्योऽन्यजल्पितम् । 'अहो केशकलापोऽस्य अहो श्रवणलम्बता ॥९९।। अहो धनत्वं कूर्चस्याहो ताम्बूलव्यसनिता । अहो विरलदन्तत्वं !' श्रुत्वैति च स ता जगौ ॥१००। कथमेतत् ततस्ताश्चावोचत्-'किं चित्रमत्र यत् । दीर्घ वेणीसलं पृष्ठे स्कन्धे कुण्डलयोः किणे ॥१०१॥ आनाभि हृदि गौरत्वाद् दृष्यते श्मश्रुणः सलम् । ताम्बूलव्यसनाच्चैषोऽङ्गुष्टश्चूर्णेन चर्चितः ॥१०२॥ नित्यं विरलदन्तानां क्षित्यारक्ता कनिष्ठिका ।' तच्छ्रुत्वा चिन्तयदसौ बहुरत्ना वसुन्धरा ।।१०३।। कृत्वा स्नानं कुमारोऽथ सरस्यमृतसागरे । तीरदेवकुले गत्वाऽर्च्यमानं ददृशे शिरः ॥१०४।। तस्येतिवृत्तं पृष्टश्च कश्चन स्थविरोऽवदत् । 'पुरेह प्रवरो राजा कारिते सरसि स्वयम् ॥१०५।।
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org