________________
कुमारपालदेवचरितम् ।
Jain Education International
प्रोवाचेति कुमारोऽयं भविता परमार्हतः । सार्वभौमस्ततो मन्त्रिन् ! सन्मान्योऽतिमहादरात् ॥७८॥ कुमारोऽप्युदयनस्य गृहे तिष्ठन्नथान्यदा । केनाप्युक्तः सिद्धराजः प्रैषीत् तं प्रति घातकान् ॥७९॥ तच्छ्रुत्वा कुमारो भीतः प्राणत्राणकृते कृती । एकाकी निशि निर्गत्य जगाम वटपद्रके ॥८०॥ विशोपकैकचणकान् कडूवणिज आपणे । क्षुधार्त्तो भक्षयित्वाऽसौ खड्गमड्डाणकं ददौ ॥८१॥ निर्द्रव्यं राजपुत्रं तं विलोक्य वणिगूचिवान् । खड्गेनालं मङ्गलीके ( माङ्गलिके) भवन्तु चणकास्तव ॥८२॥ कन्नालीसिद्धपुरके जटीभूत्वाऽथ सोऽगमत् । सिद्धेश्वरपूजनार्थं स्थापितस्तन्निवासिभिः ||८३॥ तत्रैकदा शाकुनिकं मारखं पृष्टवानसौ ।
वाञ्छिताप्तिः कदा मे स्यात् सोऽप्यूचे प्रातपतेः ॥ ८४ ॥ प्रातर्मिलित्वा शकुनान्वेषणाय गतावुभौ । मुनिसुव्रतचैत्योर्ध्वं दृष्ट्वा दुर्गां स्थितौ ततः ॥८५॥
शुभचेष्टाऽकरोद्दुर्गाऽऽमलसारे स्वरद्वयम् । स्वरत्रयं च कलशे दण्डे स्वरचतुष्टयम् ॥८६॥ हृष्टः शाकुनिकोऽवोचत् सिद्धिस्ते वाञ्छिताधिका । गत्वाऽवन्त्यां स्वजनानां मिलितः सिद्धराद्भयात् ॥८७॥ वस्त्रैः सम्पूज्य कुमारस्तं मुक्त्वा तापसव्रतम् । गत्वाऽवन्त्यां स्वजनानां मिलितः सिद्धराद्भयात् ॥८८॥ गत्वा कोल्लापुरेऽद्राक्षीद् दानभोगादिसद्गुणम् । सर्वार्थसिद्धं योगीन्द्रं सेवित्वा चाप्यतोषयत् ॥८९॥ उवाच योगी मन्त्रौ स्त एकः साम्राज्यदायकः । स्वेच्छया धनदाताऽन्य आद्यः सोपद्रवः पुनः ॥९०॥ सत्त्वसारः कुमारोऽथ मन्त्रं जग्राह राज्यदम् । उक्तेन तेन विधिना पूर्व्वसेवा व्यधत्त च ॥९१॥
For Private & Personal Use Only
७
5
10
15
20
25
www.jainelibrary.org