SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरित्रसङ्ग्रहः यत: 5 10 प्रतिदिनप्रयत्नसुलभे भिक्षुकजनजननि साधुकल्पलते ! । नृपनतिनरकतारिणि भगवति भिक्षे ! नमस्तुभ्यम् ॥६५॥ इत्युक्त्वा बोसरिभिक्षां कृत्वाऽऽयातस्तदन्तिके । करम्भकुम्भी सङ्गोप्य भिक्षासुण्डीमुपानयत् ॥६६।। भुक्त्वोभावपि सुप्त्वाथ पूर्वमुत्थाय बोसरिः । करम्भं यावदश्नाति कुमारोऽचिन्तयत् तदा ॥६७।। अहोऽस्याङ्नता येन सुप्ते मय्येककोऽत्त्यसौ । जीर्णे करम्भे सोऽप्याहोत्तिष्ठ भुक्ष्व नृपात्मज ! ॥६८।। ऊचे कुमारः किं पूर्वमेकाकी भुक्तवान् भवान् । स ऊचेऽद्य मम भिक्षागतस्योक्तं स्त्रियैकया ॥६९।। 'करम्भकुम्भं हे विप्र ! रात्रावुद्धाटितं [स्थितम्]। गृहाण यदि ते कार्यं न पुनर्दूषणं मम ॥७०।।' गोपितः स मयादाय स्वयं भुक्त्वा परीक्षितः । वरं भवतु मे मृत्यू रक्षणीयो भवान् पुनः ॥७१।। राज्ये दास्ये तव ग्राममेनमुक्त्वेति राजसूः । प्राप्तो डागुरकग्रामे साध्वीलक्ष्मीश्रियो मठे ।।७२।। तया च क्षुधितो ज्ञात्वा भोजितश्चारुमोदकैः । तयैवाप्पितपाथेयः पेटलापद्रकं गतः ॥७३।। तत्रेश्वरवणिग्वाट्यां प्रविष्टस्य पटी गता । न लब्ध्वा चाटुभिरपि विषादोऽस्य ततोऽभवत् ॥७४।। प्रावृत्य बोसरिपटीं स्तम्भतीर्थे गतस्ततः । श्रीहेमसूरीन् पप्रच्छ कदा सेत्स्यति वाञ्छितम् ।। ७५।। तेऽप्यूचुः कतिपयैस्ते वर्षे राज्यं भविष्यति । स प्राह राज्यसन्देहो मृ(म्रि)यते तु क्षुधयाऽधुना ॥७६।। $$४. इतश्चागादुदयनो गुरून्नन्तुं सुतैः सह । आख्यायाऽऽम-बप्पहट्टयोदृष्टान्तं हेमसूरिभिः ॥७७।। 15 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy