________________
5
10
कुमारपालदेवचरितम् ।
उपलक्ष्य कुमारं तं राज्ञा पृष्टो मठाधिपः । अवोचत त्रयस्त्रिंशत् तापसा वयमास्महे ।।५२।। नानाविधैर्भक्ष्यभोज्यै राजा सम्भोज्य तानथ । धौतपौतीकृते तेषां भाण्डागारे स्वयं गतः ॥५३।। अत्रान्तरे कुमारोऽपि गृहीत्वा कुण्डिकां करे । उत्क्रान्तिव्याजतो नष्ट्वाऽचालीत् प्रति दधिस्थलीम् ॥५४।। सिद्धराजोऽप्यदृष्ट्वा तं पृष्ठेऽप्रेषीच्च साधनम् । आसन्नसाधनं दृष्ट्वा कुमारो हालिकं जगौ ॥५५।। रक्ष मामिति तेनापि सञ्छन्नः कण्टकाभरैः । तमदृष्ट्वा सैन्यमपि गतं व्यावृत्य पत्तने ।।५६।। निःसृत्याथ कुमारोऽपि मुण्डाप्य विकटा जटाः । गत्वा दधिस्थली रात्रौ मिलितः सज्जनैः समम् ॥५७।। आकार्य बोसरिविप्रं कुलालं सज्जनं तथा । गन्तुं देशान्तरं ताभ्यां सह यावदमन्त्रयत् ॥५८।। तावदुज्जागरोद्विग्नौ जनकावूचतुस्तयोः । 'भवतां मन्त्रणैर्दग्धा कथं जागरिका मुधा ॥५९।। अथवा कुमारपालस्य यदि राज्यं भविष्यति । तत्कथं बोसरे ! तुभ्यं लाटदेशं प्रदास्यति ॥६०॥ किञ्च रे सज्जन ! तव चित्रकूटस्य पट्टिकाम् ? ।' बबन्ध शकुनग्रन्थि तच्छ्रुत्वा राजनन्दनः ॥६१।। सज्जनं भोपलदेव्या सह प्रैषीदवन्तिकाम् । स्वयं बोसरियुक्तस्तु चेले देशान्तरं प्रति ॥६२॥ आद्येऽह्नि करौटग्रामे उषित्वा जातलङ्घनौ । अच्छचोल्यां द्वितीयेऽह्नि प्रयातौ प्रहरद्वये ॥६३।। कुमारो बोसरिं प्राह अद्य स्याद्भोजनं कथम् । सोऽप्याहास्ति जननी मे सा मे दास्यति भोजनम् ॥६४।।
15
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org