________________
कुमारपालचरित्रसङ्ग्रहः 'मम पट्टे को भविता ?, सोऽप्यूचेऽस्ति महाभुजः । मध्ये दधिस्थलिकां यस्ते भ्रातृव्यनन्दनः ॥३८॥' राज्यं न मम पुत्रस्य जीवति भ्रातृनप्तरि । तत्तं ज्ञात्वा हनिष्यामीत्यचिन्तयदयं नृपः ॥३९।। ततोऽसौ पादचारेण कपोतीमुद्वहन् स्वयम् । गत्वा प्रभासे पुत्रार्थं सोमनाथमनाथयत् ॥४०॥ सोमनाथोऽप्यथोवाच मया राज्यधर: पुरा ।। सृष्टः कुमारपालोऽस्ति तदलं पुत्रयाञ्चया ॥४१॥ सविषादस्ततो भूपो व्यावृत्तः पत्तनं प्रति । अस्मिन् जीवति पुत्रोऽपि न मे भावीत्यचिन्तयत् ॥४२॥ मन्त्रिणे कथयच्चैतत् सोऽप्यूचे युक्तमेव तत् । 'यदा पूर्वं देव ! यूयं विजेतुं मालवान् गताः ॥४३॥ घाटे वुद्धल्लिकायाश्च संरुद्धे जसवर्मणा । युष्माभि पितश्चाहं पारापतप्रयोगतः ॥४४।। त्रिभुवनपालस्यैतत् तदा राज्यं समर्प्य ते । त्वत्समीपेऽहमायातस्तेन राज्यं वशीकृतम् ॥४५॥ निजित्य जसवर्माणं त्वय्यातेऽपि वक्ति सः । राज्यं दास्ये स्वपुत्राय हत्वा सिद्धनरेश्वरम् ।।४६॥' इति मन्त्रिवचः श्रुत्वा कुद्ध: सिद्धाधिपस्ततः । त्रिभुवनपालदेवं घातयामास घातकैः ॥४७।। कुमारपालोऽप्यवन्त्यां प्रेष्यन्त भ्रातृपितृव्यकान् । भार्यां भोपलदेवीं तु दधिस्थल्याममुञ्चत ॥४८॥ स्वयं तु त्रिपुरुषाणां मठाधिपतिसन्निधौ । कपटेन जटाधारी भूत्वा श्रीपत्तने स्थितः ॥४९।। सिद्धराजोऽपि तत्रस्थं ज्ञात्वा तं च कथञ्चन । क्षयाहे कर्णदेवस्य द्वात्रिंशत्तापसैः सह ॥५०॥ तं निमन्त्र्य मठाधीशं पङ्क्त्या धावन् पदौ स्वयम् । ददर्श राजचिह्नानि कुमारपालपादयोः ॥५१॥
15
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.