SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ कुमारपालदेवचरितम् । प्रत्यक्षीभूय साऽप्युचे युवाभ्यां किमहं स्मृता । सूरिशह नेमिचैत्यमुद्धरिष्यति सज्जनः ॥२४॥ तदेनमनुजानीहि पाषाणखनिमादिश । अम्बाप्यूचे भवत्वेतदल्पायुः सज्जनः पुनः ॥२५॥ दण्डाधिपः प्राह कार्यस्तीर्थोद्धारो विशेषतः । परलोकप्रस्थितानां पाथेयं धर्म एव यत् ।।२६।। अम्बानुज्ञां ततो लब्ध्वा पाषाणस्य खनिं च सः । श्रीनेमिचैत्यं षण्मास्यां कलशान्तमकारयत् ॥२७।। ज्येष्ठस्य सितपञ्चम्यां शिरो.त्र्तोऽथ सज्जनः । अम्बादेवीवचः श्रुत्वा जातपञ्चत्वनिश्चयः ।।२८।। आदिश्य परशुरामं स्वपुत्रं ध्वजरोपणे । भद्रेश्वरगुरोः पावें संस्तरे व्रतमग्रहीत् ॥२९।। दिनाष्टकं पालयित्वाऽनशनं सज्जनो मुनिः । दिवं जगाम पुत्रोऽथ ध्वजारोपं व्यधापयत् ।।३०।। ६६२. अथ पञ्चत्वमापन्ने कर्णदेवमहीपतौ । श्रीमान् जयसिंहदेवस्तस्य राज्येऽभ्यषिच्यत ॥३१।। चतु:समुद्रमर्यादा मही तेन वशीकृता । सिद्धो बर्बरकश्चास्य सिद्धराजस्ततोऽभवत् ॥३२।। श्रीहेमसूरीनभ्यर्थ्य सर्वविद्याविशारदान् । व्याकरणं सिद्धहेमचन्द्राख्यं स व्यधापयत् ॥३३।। ६६३. इतश्च क्षेमराजस्य पुत्रो देवप्रसादकः । तस्य पुत्रास्त्रिभुवनदेवादयस्त्रयोऽभवन् ॥३४॥ त्रिभुवनपालस्याभूत् सुतैका तनयास्त्रयः । आद्यः कुमरपालाख्यो राज्यलक्षणलक्षितः ॥३५॥ महीपालः कीर्तिपालस्तथा प्रेमलदेव्यभूत् । श्रीकृष्णभटदेवेन योदूढा मोढवासके ॥३६॥ भार्या भोपलदेवीति कुमारस्य बभूव च । अत्रान्तरे सिद्धराजो दैवज्ञं पृष्टवानिति ॥३७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy