________________
5
10
15
20
25
२
Jain Education International
यथा
कुमारपालचरित्रसङ्ग्रहः
स्नात्वा प्रभासे श्रीकर्णो यदाऽयाचत भूषणम् । कोशाध्यक्षस्तदा स्माह नादिष्टं भवद्भिस्ततः ॥ ११ ॥ आभरणं पत्तनेऽस्थाद् विखिन्नश्च ततो नृपः । तदा मदनपालाख्यो मण्डलीकोऽब्रवीदिति ॥१२॥ मा विषीद महाराज ! मन्त्रसिद्धधरा यतः । मया सन्ति सहानीताः श्रीधनेश्वरसूरयः ||१३|| अथ राज्ञाऽभ्यर्थितैस्तैरणहिल्लाख्यपत्तनात् । आकृष्टिमन्त्रेणाकृष्याभरणं तत् समप्पितम् ॥१४॥ सम्पूर्णाभिग्रहो राजाऽप्याह सूरिवरं प्रति । युष्माभिर्जीवितं दत्तं ममाभिग्रहपूरणात् ॥ १५ ॥ गृहाण तदिदं राज्यमित्युक्तः सूरिरब्रवीत् । रक्ष जीववधं राजन् ! नवरात्रद्वयेऽपि हि ॥ १६ ॥ तथेति कृत्वा संसाध्य सुराष्ट्रामण्डलं नृपः । चकार वामनस्थल्यां सज्जनं दण्डनायकम् ||१७|| ततो मदनपालेन विज्ञप्तः कर्णभूपतिः । सार्द्धं धनेश्वराचार्यैरारूढो रैवताचलम् ॥१८॥ सज्जनोऽपि स्वगुरुभिः श्रीभद्रेश्वरसूरिभिः । चतुर्विधेन सङ्खेन सार्द्धं राजानमन्वगात् ॥१९॥ श्रीनेमि (भ) वनं जीर्ण वीक्ष्य काष्ठमयं ततः । सज्जनो गुरुणादिष्ट जीर्णोद्धारकृते कृती ॥ २० ॥
राया - अमच्च-सिट्ठी कुडंबिए वावि देसणं काउं । जिन्ने पुव्वाययणे जिणकप्पी वावि कारवइ ॥२१॥ जीर्णोद्धाराय विज्ञप्तः सज्जनेन नृपस्ततः । सुराष्ट्रोद्ग्राहितं दत्त्वाऽहिल्लपुरमायौ ॥ २२ ॥ अथ भद्रेश्वरः सूरिः सज्जनेन सहाष्टमम् । तपः कृत्वाऽम्बिकादेवीमाह्वानयददीनघीः ॥ २३॥
For Private & Personal Use Only
www.jainelibrary.org