________________
अज्ञातकर्तृकं पुरातनं संक्षिप्तं कुमारपालदेवचरितम्।
प्रणम्य श्रीमहावीरं सर्वज्ञं पुरुषोत्तमम् ।
कुमारपालदेवस्य चरितं किञ्चिदुच्यते ॥१॥ ६६१. अस्त्यत्र गूर्जरात्रायां नाम्नाऽणहिल्लपत्तनम् ।
पुरं तत्र नृपो भीमदेवो देवोपमर्द्धिकः ॥२॥ क्षेमराज-कर्णदेवौ तत्पुत्रौ भिन्नमातृकौ । परस्परं प्रीतिभाजौ यथा राघव-लक्ष्मणौ ॥३॥ कर्णमातुस्ततस्तेन भीमदेवेन चैकदा । प्रतिपन्नं राज्यदानं श्रीकर्णस्य लघोरपि ॥४।। वशीकर्तुमिव स्वर्गं भीमदेवे दिवङ्गते । राज्यक्षमे क्षेमराजे कर्णे राज्यं न वाञ्छति ॥५।। राम इव क्षेमराजः स्मृत्वा भाषां पितुस्ततः । कर्णं महोपरोधेन स्वयं राज्ये न्यवीविशत् ।।६।। पालयन्नन्यदा राज्यं परनारीसहोदरः । चचाल देवयात्रायां कर्णः कर्ण इवापरः ॥७।। श्रीदेवपत्तनादर्वाग् गव्यूतैः सप्तभिः स्थितः । प्रासादं सोमनाथस्य दृष्ट्वाऽभिग्रहमग्रहीत् ।।८।। 'यथा पापक्षयं हारं चन्द्रादित्याख्यकुण्डले । श्रीतिलकमङ्गदं च परिधीय समाहितः ॥९॥ यदा सोमेश्वरं देवं पूजयिष्यामि भक्तितः । भोक्ष्ये तदाशनं पानं ताम्बूलमपि नान्यथा ॥१०॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org