________________
5
10
15
Jain Education International
श्रीमद् हेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितान्तर्गतमहावीरचरितस्थं
कुमारपालचरितवर्णनम् ।
[ द्वादशसर्गात् समुद्धृतम् ]
पृच्छति स्माभयोऽथैवं कपिलर्षिप्रतिष्ठिता । प्रकाशमेष्यति कदा प्रतिमा पारमेश्वरी ||३६|| स्वाम्याख्याति स्म सौराष्ट्र - लाट - गूर्जरसीमनि । क्रमेण नगरं भावि नाम्नाऽणहिलपाटकम् ||३७|| आर्यभूमेः शिरोरत्नं कल्याणानां निकेतनम् । एकातपत्राद्धर्मं तद्धि तीर्थं भविष्यति ||३८|| चैत्येषु रत्नमय्योऽर्हत्प्रतिमास्तत्र निर्मलाः । नन्दीश्वरादिप्रतिमाकथां नेष्यन्ति सत्यताम् ॥३९॥ भासुरस्वर्णकलश श्रेण्यलङ्कृतमौलिभिः । रोचिष्यते च तच्चैत्यैर्विश्रान्ततपनैरिव ||४०|| श्रमणोपासकस्तत्र प्रायेण सकलो जनः । कृतातिथिसंविभागो भोजनाय यतिष्यते ॥ ४१ ॥ परसम्पद्यनीर्ष्यालुः सन्तुष्टश्च स्वसम्पदा । पात्रेषु दानशीलश्च तत्र लोको भविष्यति ॥४२॥ श्राद्धाश्च धनिनस्तत्रालकायामिव गुह्यकाः । वस्यन्ति द्रविणं सप्तक्षेत्र्यामत्यन्तमार्हताः ||४३|| परस्व - परदारेषु सर्वः कोऽपि पराङ्मुखः । भावी तस्मिन् पुरे लोकः सुषमाकालभूरिव ॥४४॥
For Private & Personal Use Only
www.jainelibrary.org