SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ २२२ 5 10 कुमारपालप्रतिबोधप्रशस्तिः प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी, वाग्गमी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरञ्जितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः ‘कवीन्द्र' इति च 'भ्राते'ति च व्याहरत् ॥८॥ पुत्रस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमतामुत्तंस: कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् । क्लृप्तं तद्वसताविदं किमपि यच्चायुक्तमुक्तं मया तद्युष्माभिरिहोच्यतामिति बुधा वः प्राञ्जलिः प्रार्थये ॥९॥ हेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिपैः श्रुतमेतत् । वर्द्धमान-गुणचन्द्रगणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥१०॥ यावन्निहिताखिलसन्तमसौ नभसि चकास्तो रवि-चन्द्रमसौ । तावत् हेमकुमारचरित्रं साधुजनो वाचयतु पवित्रम् ॥११॥ विमलमतिसुधाच्चिर्नेमिनागाङ्गजन्माऽभवदभयकुमारः श्रावकः श्रेष्ठिमुख्यः । अथ निजकरपद्मप्राप्तधर्मार्थपद्मा विजितपदकपद्मा तस्य पद्मीति पत्नी ॥१२॥ तत्पुत्रा गुणिनोऽभवन् भुवि हरिश्चन्द्रादयो विश्रुताः श्रीदेवीप्रमुखाश्च धर्मधिषणापात्राणि तत्पुत्रिकाः । तत्प्रीत्यर्थमिदं व्यधायि तदुपट्टरागच्छष्टात्मभि(?)भूयिष्ठानि च पुस्तकानि.......सोऽलेखयत् ॥१३।। शशि-जलधि-सूर्यवर्षे शुचिमासे रविदिने सिताष्टम्याम् । जिनधर्मप्रतिबोधः क्लुप्तोऽयं गूजरेन्द्रपुरे ॥१४॥ प्रस्तावपञ्चकेऽप्यत्राष्टौ सहस्राण्यनुष्टुभाम् । एकैकाक्षरसङ्ख्यातान्यधिकान्यष्टभिः शतैः ॥१५॥ 15 20 संवत् १४५८ वर्षे द्वितीयभाद्रपदशुदि ४ तिथौ शुक्रदिने श्रीस्तम्भतीर्थे बृहद्धर वृद्ध पौषधाशालायां 25 भट्टा० श्रीजयतिलकसूरीणां उपदेशेन श्रीकुमारपालप्रतिबोधपुस्तकं लिखितमिदम् ॥ कायस्थज्ञातीय महं म मण्ड)लिकसुत (खे )तालिखितम् । चिरं नन्दतु ॥छ।। उ० श्रीजयप्रगभगणिसष्य( शिष्य) उ० श्रीजयमन्दिर-गणिसष्य( शिष्य) भट्टा० श्रीकल्याणरत्नसूरिगुरुभ्यो नमः ॥ पं० व( विद्यारत्नगणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy