________________
कुमारपालप्रतिबोधप्रशस्तिः
10
सूर्याचन्द्रमसौ कुतर्कतमसः कर्णावतंसौ क्षिते(ौँ धर्मरथस्य सर्वजगतस्तत्त्वावलोके दृशौ ।। निर्वाणावसथस्य तोरणमहास्तम्भावभूतामुभावेकः श्रीमुनिचन्द्रसूरिरपरः श्रीमानदेवप्रभुः ॥१॥ तयोर्बभूवाजितदेवसूरिः शिष्यो बृहद्गच्छनभःशशाङ्कः । जिनेन्द्रधर्माम्बुनिधिः प्रपेदे घनोदकः स्फूतिमतीव यस्मात् ॥२॥ श्रीदेवसरिप्रमुखा बभूवुरन्येऽपि तत्पादपयोजहंसा । येषामबाधारचितस्थितीनां नालीकमैत्रीमुदमाततान ॥३।। विशारदशिरोमणेरजितदेवसूरेरभूत्, क्रमाम्बुजमधुव्रतो विजयसिंहसूरिः प्रभुः । मितोपकरणक्रियारुचिरनित्यवासी च यश्चिरन्तनमुनिव्रतं व्यधित दु:षमायामपि ॥४।। तत्पट्टपूर्वाद्रिसहस्ररश्मिः सोमप्रभाचार्य इति प्रसिद्धः । श्रीहेमसूरेश्च कुमारपालदेवस्य चेदं न्यगदच्चरित्रम् ।।५।। सुकविरिति न कीर्ति नार्थलाभं न पूजामहमभिलषमाणः प्रावृतं वक्तुमेतत् । किमुत कृतमुभाभ्यां दुष्करं दुःषमायां; जिनमतमतुलं तत्कीर्तनापुण्यमिच्छुः ॥६।। धर्मे निर्मलतामवाप्तुमतुलां श्रीहेमचन्द्रप्रभौ, भक्तिं व्यञ्जितमद्भुतां भणितिषु द्रष्टुं परामौचितीम् । श्रोतुं चित्रकथाश्चमत्कृतिकृतः काव्यं च लोकोत्तरं; कर्तुं कामयसे यदि स्फुटगुणं तद्ग्रन्थमेतं शृणु ॥७॥
20
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org