SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रतिबोधसङ्क्षेपः हहा ! विषयपङ्कौघमग्नस्तिष्ठति मादृशः । धन्यो दशार्णभद्रः स राज्यं तत्याज यः क्षणात् ।।५४५।। [अत्र दशार्णभद्रकथानकमनुसन्धेयम् ।] एवं कुर्वन्नहोरात्रकृत्यानि परमार्हतः । कुमारपालदेवोऽयं राज्यं पालयति क्षितौ ॥५४६।। 10 नृपस्य जीवाभयदानडिण्डिमैर्महीतले नृत्यति कीर्तिनर्तकी । समं मनोभिस्तिमि-केकि-तित्तिरिस्तुभोरण-क्रोड-मृगादिदेहिनान् ॥५४७।। द्यूतासवादीनि नृणां न्यषेधीदिहैव सप्त व्यसनानि भूपः । दुष्कर्मतो दुर्गतिसम्भवानि परत्र तेषां त्वमितानि तानि ॥५४८॥ पदे पदे भूमिभुजा निवेशितैजिनालयैः काञ्चनदण्डमण्डितैः । निवारिता वेत्रधरैरिवोद्धतैः स्फुरन्ति कुत्रापि न केऽप्युपद्रवाः ।।५४९।। स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुळधित प्रबोधम् ।।५५०॥ सत्त्वानुकम्पा न महीभुजां स्यादित्येष क्लृप्तो वितथ: प्रवादः । जिनेन्द्रधर्मं प्रतिपद्य येन श्लाघ्यः स केषां न कुमारपाल: ॥५५१॥ 15 विचित्रवृत्तान्तसमेतमेतयोश्चरित्रमुत्कीर्तयितुं क्षमेत कः । तथापि तस्यैव.....तार्थिना समुद्धृतो बिन्दुरिवाम्बुधेर्मया ॥५५२।। इति सोमप्रभकथिते कुमारनृप-हेमचन्द्रसम्बद्धे । जिनधर्मप्रतिबोधे प्रस्तावः पञ्चमः प्रोक्तः ॥५५३।। इत्याचार्यश्रीसोमप्रभविरचिते कुमारपालप्रतिबोधे पञ्चमः प्रस्तावः ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy