________________
कुमारपालदेवप्रबन्धः ।
२४७ वइजलेन धाङ्गाग्रे उक्तम्-'नृपेणैवंविधं हास्यमकारि, तदहं मरिष्ये' । तेन साक्षेपमुक्तम्'मारयिष्ये न वदसि, मरिष्ये वदसि । अमुं मारयिष्याव:' -इति निश्चित्य स्थितौ । नृपस्तु राजपाट्यां निर्ययौ । सन्ध्यायां सुखासनासीनोऽन्धकारप्रतोल्यां प्रविशन् वइजलेन कपाटपश्चान्निर्गत्य धाङ्गाकेन सह स्थितेन उभाभ्यां नृपो हतः । कलकले जाते धाङ्गाको हतः, वइजलो नष्टः । राजा तु तत्रैव पपात । जनो दिशोदिशं गतः । इतो 5 लब्धसञ्जस्तृषितो राजा रिङन् प्रतोलीप्रत्यासन्ने तन्तुवायगृहे प्रविष्टः । गर्त्तायां मुखे वाहेने (पातिते) तन्तुवायेन लकुटो क्षिप्तः स्वा(श्वा)नं मत्वा । तेन विदीर्णशिराः पपाठ
धांगा दोसु न वइजल्या नवि सामंतह भेउ ।
जं मुणिवर संताविआ तह कम्मह फल एहु ॥६३॥ इति वदन् पीडया मृत्वा श्वभ्रं ययौ ।।
॥ इत्यजयपालप्रबन्धः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org