________________
२४६
कुमारपालचरित्रसङ्ग्रहः तेन कृतः मध्ये एकस्य देवस्य स्थापनं कृतम् । ध्वजाऽऽरोपं कृत्वाऽग्रे नृत्यं कृत्वा उक्तम्-'देव ! गजान्ता लक्ष्मीः, ध्वजान्तो धर्मः । अतोऽहममुं निर्माय कृतकृत्यो जातः । शयनं विधास्ये'- इति मुकटीं कृत्वा सुप्तः । पुत्रेणागत्य देवकुलिका पातिता । सीलणः
पटीं त्यक्त्वा उत्थितः सन् प्राह- 'रे ! केनेदं पातितम् ?' । 'भवतो ज्येष्ठपुत्रेण' । 5 सीलणेन स चपेटया हतः-र! त्वमस्यापि सदृशो न ? । एतस्यापि नृपते-नः ! ।
अनेन स्वपितरि मृते तस्य कीर्तनानि पातितानि । त्वया मम जीवतोऽपि पातितम् । मम मृत्युरपि न प्रतीक्षितः' । इति श्रुत्वा नृपस्य नेत्रयोर्नीरं पपात । 'सीलण ! किं कथयिष्यसि (कथयसि) ? देव ! विमृशस्व तथ्यमिदमतथ्यं वा । गृहस्थः कीर्तनं
कारयति । यावन्मम कोऽपि भविष्यति तावदस्य सारा भविष्यति' । 'ये पतितास्ते 10 पतिताः, शेषाः सन्तु' । एक एवावशेषोऽस्ति । यस्तव नाम्ना । यमकरणं व्यावर्त्यताम् । इत्थं कृते प्रासादाश्चत्वार उद्गारिताः ।
इति तारणगढप्रासादरक्षणप्रबन्धः ॥
५६. अथ राज्याद् वर्षे तृतीये पर्युषणपर्वणि थारापद्रीये प्रासादे श्रावका मिलिताः । आभडवसाहेन उक्तम्-'समयं विलोकयत । यत्र तपोधनानां सहस्रा आसन् 15 तत्राद्य स कोऽपि न दृश्यते, यस्य मुखात् प्रत्याख्यानमपि क्रियते । क्वापि कोऽपि
तपोधनः पुरमध्ये श्रुतो दृष्ट्वो वा ?' । एकेन कर्णे प्रविश्य उक्तम्-'यद् राजपुत्रवाटके धरणिगः श्रेष्ठ्यस्ति, तेन जङ्घाबलपरिक्षीणाः स्वगुरवः स्थापिताः सन्ति च्छन्नम्' । तदनु वसाहस्तस्य गृहे गतः । तेनाभ्युत्थितः । पादमवधार्यताम् । 'अद्य सांवत्सरिकपर्वणि
तपोधनान् दर्शय' । तेनोक्तम्-क्व तपोधनाः ।' । 'सन्ति' । तेन भूमिगृहे नीत्वा गुरवो 20 दर्शिताः । वसाहस्तु चरणयोर्निपत्य रोदितुं प्रवृत्तः- 'भगवन् ! स कोऽपि नास्ति, यो
अमुं दुरात्मानं नृपं शिक्षयति' । गुरुभिरुक्तम्-'शक्तिरस्ति, परं सान्निध्यकर्ता कोऽपि विलोक्यते' । वसाहस्तु तस्यैव श्रेष्ठिनः शिक्षां दत्त्वा ययौ । गुरवो जप्तुं प्रवृत्ताः ।
६६५७. इतस्तृतीयदिने नृपस्य कुबुद्धिर्जाता । तदीयौ धाङ्गा-वइजलिआख्यौ पदाती स्तः । तयोर्माता सुहागदेवी सा स्वैरिण्यस्ति । सा नृपेणानीयान्धकारे 25 स्थापिताऽस्ति । इतः सन्ध्यावसरे वइजलिकः पीत्वा समायातः । नृपेण हास्ये प्रारब्धे
उक्तम्-'रे ! याचस्व स्वैरम्' । तेनोक्तम्-'देव ! अधुनाऽवसरयोग्यं दीयताम्' । नृपेणोक्तम्-'उपवरिकायां व्रज । परं वदनं नावलोकनीयम्' । स तत्र गतः । इतः पृष्ठे नृपो दीपकर: समाययौ । तेनाम्बा दृष्टा । सवित्र्या पुत्रो दृष्टः । परस्परं लज्जितौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org