________________
२४५
कुमारपालदेवप्रबन्धः।
गते हेमाचार्य कुमतितिमिरध्वंसतरवौ, स्वपक्षक्षेमार्थं का पट]पटुभिः कैश्चिदधरैः । श्रितः सामन्ताख्यः सपदि स हि पञ्चत्वमगमत्,
कपोतो यां शाखामधिवसति सा शुष्यतितराम् ॥६२॥ इत आचार्यः कृष्णमुखः स्वोपश्रयं ययौ । चिन्तितम्-देवताऽऽराधनं विना 5 मनोरथानां सिद्धिर्न । अतो रैवतकै गत्वा देवीं अम्बां परितोष्य हेमाचार्यसमो भविष्यामि। तत्र गतस्तपश्चरणं प्रारेभे । उपवासत्रयं तदनुं तलहट्टिकायां पारणम् । एकः परिचर्याकरः । एवं मास २ तपःप्रान्ते देव्यम्बा प्रत्यक्षा जाता-'कार्यं वद' । तेनोक्तम्'गूर्जरात्रायां न । अन्यत्र गच्छ'। तेनोक्तम्-'ममाप्यत्रैव पडप(?)मस्ति' । अम्बिकयोक्तम्-'तर्हि याहि' । तेनोक्तम्-'यदि एतत् सत्यं करोमि तदाहं ......' अम्बिकया 10 हेमाचार्यनृपमूोरधिष्ठायिकावुक्तौ- 'यदेष भवद्यशः समीहते' । ताभ्यां पवनयोगाद् यमलपर्वतान्तरे क्षिप्तश्चूर्णितश्च । क्षुल्लकेनावलोकमाने रजोहतिः प्राप्तः । तामादाय समागतः ।
६६५५. अथ [अजयपालेन] प्रासादेषु पात्यमानेषु यमकरणं तारणदुर्गोपरि सन्नद्धम् । प्रातः प्रयास्यतीति श्रुत्वा वसाहआभडमुख्यः[सङ्घः] पर्यालोचितवान्- 15 विलोकयत, श्रीकुमारपालदेवेन प्रासादाः कारिताः । अनेन दुरात्मना पातिताः । कोऽपि न वेत्स्यति यन्नृपः श्रावकोऽभून्न वा । यद्येष तारणदुर्गप्रासादो रक्षितुं शक्यते तदा भव्यम् । सीलणकउतिगिआ विनाऽन्योपायो नास्ति । तस्य गृहे चलत । [गतस्तत्र] सङ्घस्तेनाभ्युत्थितः । करौ संयोज्य उक्तम्-'मयि विषये महान् प्रसादः । किं कार्यम् ?' । 'भो ! त्वं वेत्सि, पूर्वनृपेण प्रासादाः कारिताः, अनेन पातिताः । एकस्तारण- 20 दुर्गस्यावशेषोऽस्ति सोऽपि प्रातः पतिष्यति । यदि त्वया रक्ष्यते, अन्यः कोऽप्युपायो नास्ति' । 'एष भवतां प्रमादः । पूर्वं ज्ञापितोऽभूवं तदैकोऽपि नापतिष्यत्' । 'यज्जातं तज्जातम् । त्वयाऽमुं रक्षता सर्वेऽपि रक्षिताः' । सङ्घः सत्कृत्य विसृष्टः । स नृपसमीपं गत:- 'देव ! मुत्कलापयामि' । 'भो ! क्व यासि ?' । 'देव ! वयमुत्पन्नभक्षकाः । सर्वे भक्षितम् । क्वापि रा(आ)यतने गत्वा कृ(त्व)न्नाम्ना द्रविणमादाय पुनरेष्यामः'। 25 नृपेणोक्तम्-'यदि पत्तनं विहाय यूयमन्यत्र यात, तदाऽहं लज्जे । अवसरं दास्यामि' । 'देव ! [अद्य] अवसरो भवति वा यामि' । 'तर्हि सज्जतां कृत्वा सन्ध्योपर्येहि' । नृपेण सर्वः कोऽप्याहूतः । प्रारब्धं प्रेक्षणम् । इतः सीलणेन इष्टिकाः समानीय पातिताः । मृत्तिकारासभानि रङ्गान्तः समाजग्मुः । पानीयं च । कटिकस्त्वाकारित:-'प्रासादं कुरु' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org