________________
२४४
कुमारपालचरित्रसङ्ग्रहः इति भणन् पट्टे निविष्टः । ज्वालामुखे निर्ययौ । रामस्त्रिदिवं गतः । बालचन्द्र[:] पट्टे निविष्टः ।
इतो नृपो द्विजवाक्याद् नृपकीर्तनान् पातयितुमारेभे । कृष्णवेषो महिषारूढो मुद्गरकरः, मुद्गरकरैर्द्विजैर्वृतः । यमकरणमिति नाम धारयन् कुमारपालप्रासादान् 5 पातयति । तपोधनाः पत्तनं विहाय दिशोदिशं जग्मुः ।
६६५३. अथैकदा श्रीहेमाचार्येषु सत्सु राज्ञा उक्तम्-'प्रभो ! एकस्मिन् शासने पक्षद्वयी का ? । एके चतुर्दशी मन्यन्ते, एके पूर्णिमां मन्यन्ते । तत एकमेव भवति तदा रम्यम् । श्रीहेमसूरिणा पूर्णिमापक्षीयाः सुमतसूरय आहूय उक्ताः-'यद् नृपः कथयति,
एकस्मिन् धर्मे भेदः कः । ततः पूर्णिमायां प्रतिक्रमणं समस्तमपि सङ्घ वयमादर10 यिष्यामः। यदि प्रतिष्ठां यूयं मन्यध्वम्' । तैरुक्तम्-'पर्यालोच्य प्रातनिवेदयिष्यामः' । गुरुभिराहतो मार्गो मोक्तुं न युज्यते, स्थातुं च न शक्यते
रूसउ कुमरनरिंदो अहवा रूसंतु लिंगिणो सव्वे ।
पुन्निमसड्ढपइट्टा सुमतसूरिहिं नो मुक्का ॥६१॥ इति गाथां स्थूलाक्षरैलिखित्वा स्थापनाचार्य आलके मुक्त्वा प्रणष्टाः । प्रातराकारणे गते 15 जनाः पत्रिकामादाय प्रभूणां दर्शयामासुः । प्रभुभिरुक्तम्- 'नष्टाः कियद् यास्यन्ति ।
अधुनैव आनाय्यन्ते, परं सन्तु' । ते भयभीताः कुङ्कणे गताः । तत्र विदेशे कोऽपि नोपलक्षयति, नाऽऽयाति । अत्यन्तं दुःखिताः सन्ति । एकदा तनुगमनिकायां गतैराकुलीतरुं दृष्ट्वा गूर्जरात्रां संस्मृत्य तामनु फेरकान् ददतां हृदयसङ्घट्टः समजनि ।
88५४. इतोऽजयपालराज्ये पूर्णिमापक्षीयः सामन्तसिंहनामा मन्त्री । तेन नृपो 20 विज्ञप्तः-'देव ! पूर्वराज्ञि सति भवान्मावठिं(?) भ्रान्तः श्रीहेमाचार्यैरस्मद्गुरवो निष्कासिताः । देवस्य राज्ये ते युज्यन्ते । यद्यादेशो भवति तदाऽऽनाय्यन्ते । नृपाज्ञयाऽऽहूताः । जनो वक्ति 'अमी के ?' । 'भावठिकाः', 'वराकाः सन्तु' । इत: सामन्तसिंहो मृतः । एकदाऽऽचार्यो लञ्चिकान् परिधाय तलिकैः प्रहतैस्तनुगमनिकायां याति । इतः कुमारगुरुं प्रह्लादं प्रासादगवाक्षस्थं वीक्ष्य प्राह-'कपोतो यां शाखाया25मधिवसति सा शुष्यतितराम्' ।
इत: प्रह्लादेनोक्तम्-'आचार्य ! शृणु, एतत् सत्यमेव
1. B रूसेइ हेमसूरी उ । 2. B ०सड्डि० । 3. B न हु चत्ता पुन्नगच्छेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org