________________
२४२
कुमारपालचरित्रसङ्ग्रहः
ग्रहीष्यामि । त्वया मम च पार्श्वे स्थेयम्' । 'आदेश: प्रमाण' मिति भणित्वा स्थितः । प्रस्तावे राज्ञा स सेनानी कृतः । जेसलवाणिज्यकारकः कटकं गृहीत्वा पल्लीं भङ्क्त्वा सर्वं विनाशयामास । जयन्तः पलायाञ्चक्रे । तेन कोपाज्जयन्तपुत्रो बालको मारितः । तत उज्जयिन्यां गतस्य राजप्रसादो बभूव । जयन्तः पल्लीपतिरेकाकी भ्रान्त्वा गङ्गाया5 स्तटे गतः सन् चौरिकया बालवृद्धान् मारयति । क्रूरचित्तो बभूव । कदाचित् श्रीयशोभद्रसूरयो ग्र (गृ) हे चटिताः । अहं मारयिष्यामीति भणितम् । भणितं पूज्यैः'त्वया बहवो लोका विनाशिताः । अग्रेऽपि बहुपातकमर्जितम् ' - इत्यादि[वचनेन] श्रीयशोभद्रसूरिभिर्बोधितः । जीववधे नियमं जग्राह । गङ्गातटं परित्यज्य तिलङ्गदेशे अणघउरनगरे ईश्वरव्यवहारिणो गृहे थावरीनाम्नी कर्मकरी, तस्य (स्या) गृहे स्थितः । 10 तया व्यवहारिणा च पुत्रबुद्ध्या गणित: । तत्रस्थो जीवदयां पालयति । अन्यदा श्रीयशोभद्रसूयोऽनघपुरे समाजग्मुः । मम गुरवः समागताः । मम भाग्यं जागर्त्ति । सदा गुरूणां पार्श्वे उपविष्टस्तिष्ठति । अन्यदा ईश्वरव्यवहारिणा पृष्ट:- ' अद्यकल्ये क्व यासि, गृहे न दृश्यसे । तेनोक्तम्- 'गुरूणां पार्श्वे धर्मं शृणोमि । व्यवहारिणा भणितम्- 'के ते गुरव:' । तेन वर्णना कृता । महामहेश्वरो व्यवहारी गुरूणां समीपे गतः । जैनधर्मं श्रुत्वा 15 सकुटुम्बो जैनो बभूव । अन्यदा देवकुलं कारितम् । श्रीयशोभद्रसूरिभिः प्रतिष्टा (ष्ठा) कृता । ईश्वरस्त्रिकालं देवपूजां करोति । चतुर्मासकदिने जयन्तः [तेन] साकं देवगृहे नीतः । तेनोक्तम्-‘वीतरागं न पूजयसि ?' । जयन्तेनोक्तम्- 'मम [पा ]र्श्वे किमपि द्रव्यं नास्ति येन पुष्पाणि गृहीत्वा पूजयामि' । व्यवहारिणा भणितम्- 'अमूनि पुष्पाणि गृहाणि(ण)' । तेनोक्तम्- 'ममैभिः पुष्पैर्देवं पूजयतः किं पुण्यम् ?' । तेन द्यूतेन पूर्वं 20 जितान् विंशतिकपर्द्दकान् व्ययित्वा पुष्पाणि गृहीत्वा वीतरागः पूजितः । गुरुसमीपे उपवासश्च कृतः । भोजनवेलायामात्मार्थं भोजनं परिवेष्य मुनीनां दत्तम् । आत्मानं कृतार्थं मेने । प्रस्तावे शुभध्यानेन मृत्वा चौलुक्यवंशे तिहुअणपालगृहे कुमारपालो बभूव । देवपूजाप्रभावेण राज्यं जातम् । पूर्वभवे जीवदयाप्रभावेण अमारिः कृता । एतत् कुमारपालदेवो न मानयति । श्रीहेमसूरिभिर्भणितम्- 'लि ( ति )लङ्गदेशे अणधउरपत्तने 25 व्यवहारिणो गृहे थावरीनामकर्म्मकरी सा पृष्टव्या' इति प्रत्ययार्थं राज्ञा आत्मीयसालको मुत्कलितः । तत्र गतेन तेन सर्वं कर्मकर्याः श्रुतम् । तद्दिनादारभ्य श्रीकुमारपालदेवः परमश्रावको बभूव । जेसलवणिजारको बालकहत्याकारी राज्ञा निष्कासितः । स्वकीयपापं ज्ञात्वा कार्पटिकीभूय कावड (डं) स्कन्धे कृत्वा केदारं नमस्कृत्य श्रीसोमेश्वरे गङ्गोदककुम्पान् ढालयति । तत्प्रभावात् कर्णराजगृहे श्रीमयणल्लदेव्याः 30 श्रीजयसिंहदेवो बभूव । श्रीकुमारपालदेवेन सह श्रीजयसिंहदेवस्य पाश्चात्यभवाद् वैरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org