________________
कुमारपालदेवप्रबन्धः ।
२४१ भृता । तत्र पटी रञ्जिता । द्विजा उक्ता-गेहान् त्यक्त्वा यात' । तेषु बहि:स्थितेषु प्राकारं खण्डशः कृत्वा गेहांश्च इङ्गालान् वाप्य पुनः । पत्तने समायातः । इतो नृपतिना उक्तम्'क्षेमेण समायाताः ?' । 'देव ! धारावर्षस्त्वदाज्ञामतिक्रम्य स्थितः' । नृपेण देशत्यागो दत्तः । वर्षत्रयेण अश्व ५०० दत्त्वा पुनरायातः ।।
इति रोहेडाद्विजानां प्रबन्धः ॥
४८. एकदा जाल्योधरे जिनरथयात्रायां जायमानायां द्विजैः कन्दलं कृत्वा रथबिम्बं भग्नम् । श्रावकैः द्विजाः कुट्टिताः । यावत् ते पत्तने रावायां यान्ति, तावत् पूर्वमेव श्रावकः प्रभवो ज्ञापिताः । इतः प्रतिक्रमणप्रान्ते गुरुभिर्नृपाय सम्भालितम् । प्रातद्विजैरायातैर्नृपेनो(णो)क्तम्-'यूयं म्लेच्छा धर्मस्थानभङ्गात्, अतो नगरं त्यक्त्वा देशत्यागं यात' । तैः प्रभवो विज्ञप्ता:- 'परं क्व याम: ?' । ततो गुरुभिरुक्तम्-'नरकं (नगरं ?) 10 त्यक्त्वा देशत्यागं यात' । अन्यसीमायां तिष्ठत । पुरमुद्वसं कृतम् ।।
६४९. अथ गुरवः पूर्णायुषश्चतुरशीतिवर्षायुः प्रतिपाल्य दिन ३ अनशनं आदाय, नृपेऽसमाधिपरे आहुः-'मा विषीद, भवतामपि षण्मासान्ते मृत्युः' । त[त]: समाधिना रामचन्द्रं स्वपदे संस्थाप्य पञ्चपरमेष्ठिस्मृतिपरास्त्रिदिवं जग्मुः । तदनु महोत्सवपुरस्सरं संस्कारे जाते नृपे[ण] शिखां मत्वा भस्मकणः स्वशिरसि क्षिप्तः । 15 लघुजनेन कणे उत्पाटिते गर्ता पतिता । सा हेमखड इति प्रसिद्धा जाता ॥
॥ इति प्रभूणामवसानप्रबन्धः ॥
88५०. श्रीहेमचन्द्रसूरयः श्रीकुमारपालदेवस्य पूर्वभवं कथयामासुः । महाराजश्रीकुमारपालदेवस्य... स्थानान्तरं इति व्यतिकरान्महाराजं मुत्कलाप्य सीधु(सिद्ध)पुरे यात्वा नदीसमीपे भव्यरमणप्रदेशे त्रिभुवनस्वामिनी विद्यामाराधयितुं प्रवृत्ताः । 20 तृतीयदिवसप्रान्तेऽर्द्धरात्रौ देवी प्रकटीबभूव । तयाऽभिप्राये पृष्टे भणितम्-‘परमेश्वरि ! श्रीकुमारपालदेवस्य पूर्वभवं कथय' । सा प्राह-'मालवकसन्धौ पर्वतमध्ये जयत(न्त)नामा भिल्लो वसति । अन्यदा वाणिज्यकारकजेसलनामा बह्वी वलीवर्दावली गृहीत्वा जयन्तभिल्लपल्ल्याः समीपे जलाऽऽश्रये स्थितवान् । चरेण दृष्ट्वा जयन्तस्य वृत्तान्तः कथितः । जयन्तेन सार्थो गृहीतः । केऽपि क्वापि नंष्ट्वा सार्थिका जग्मुः । 25 जेसलवाणिज्यकारकेण मालविकराज्ञो द्वारं बद्धम् । राज्ञाऽऽकार्य सन्मानितः । राज्ञा जगदे-'यत् त्वदीयं जगाम तद् गृहाण मम पार्धात् । अहमात्मीयं तस्य पार्वाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org