________________
5
२४०
कुमारपालचरित्रसङ्ग्रहः
पातिता एव । तैर्गोष्ठिकैः श्रीदेवाचार्यभक्तैर्गुरवो विज्ञापिताः । तैस्तु हेमाचार्याणामुपालम्भो दत्तः । ते तु गणेर्न्यूनमधिकं न मन्यन्ते । उक्तं- 'प्रभो ! राज्ञा १४४० प्रासादाः कारिताः । चत्वारो न्यूना ज्ञेया: ' । श्रीदेवाचार्यैरुक्तम्
तं किंपि कयं महिसासुरेण पुव्विं कयाइ दुच्चिन्नं । तेण भवाणीभवणे अज्ज वि महिसा वहिज्जंति ॥ ५५ ॥
हेमा० रुक्तम्– ‘मृतानामुपरि शकटानि यान्तु' । इतः श्रीहेमाचार्याः पौषधागारे गताः । प्रतिक्रमणान्ते नृपं प्राहुः - भवद्भिः श्रीदेवाचार्यानां (णां) पौषधागारे गन्तव्यम् । किञ्चित् कुमुखिता: (? कुपिताः) सन्ति । नृपस्त्वच्छूरं भणित्वा न गतः । श्रीदेवाचार्यैः शाकम्भर्या उपरि विहारः कृतः । तत्र वीसलदेवनृपतिना कृ[त] सन्मानाः सन्ति । 10 एकदा श्रीकुमारपालदेवेन प्रधानान् प्रेष्य श्रीपत्तने आकारिताः । देवकुलिकाचतुष्कव्यति[क]रे प्रासादचतुष्कं दत्तम् । एकः श्रीसुवर्णगिरिमण्डनः श्रीपार्श्वनाथस्य, द्वितीयस्तलहट्यां जाबालिपुरीयः, तृतीयो नडूले श्रीयुगादिदेवस्य चतुर्थो गून्दउजपुरे श्रीशान्तिनाथस्य ।
४६. एकदा नृपेण पृष्टाः - 'एते प्रासादा: कियच्चिरं स्थास्यन्ति ?' | 'देव ! 15 त्वज्जीवितावधि:' । 'कोऽनर्थकारी ?' । 'त्वद्भातृपुत्रो अजयी' । 'प्रभो ! यद्येवं तर्हि हन्यते' । 'राजन् ! तिष्ठतु' । एष पर्यालोच: प्रभूणां शिष्येन (ण) बालचन्द्रेण श्रुतः । तस्याग्रे उक्तः । स नंष्ट्वा गतः ।
§§४७. इत एकदा राज्ञि पौषधागारनिविष्टे गणिना पटी एका वितत्य नृपाय दर्शिता । नृपेणोक्तम्- 'कथमेषा पटी लाञ्छनाऽऽकुला दृश्यते' । 'देव ! मदुरो रुधिरेण ' । 20 नृपः क्रुद्धः । स को येन मम गुरोरङ्गाद् रुधिरं कृष्टम् ?' | 'देव ! ईदृशा उच्छृङ्खला द्विजा एव, अपरः कः' । कथकि (मि)ति पृष्टे-रोहेडकस्थाने देवं नन्तुं गताः । तत्रैन द्विजेन गवाक्ष्य (क्ष) रूढेन कक्करकः क्षिप्तः । शिरसि लग्नः । रुधिरं निःसृतम् । शिष्यैरप्युपेक्षितम् । मया संवृत्य मुक्ता कदाचित् ज्ञास्यते । एषा सा' । नृपः कुपितः सन् गणि दलपतिं कृत्वा चन्द्रावती श]धारावर्षं सह प्रहित्य अश्वसहस्त्रैः १२ समं प्राहिणोत् 25 | धारावर्षस्तु टलितः - 'द्विजानां सुता [ ना]मुपरि किं गम्यते' । गणिना ग्रामे वेष्टिते द्विजा वर्चसं कर्त्तु नि[:] सृताः । गणिनोक्तम्- 'यथान्यायं कुरुत, तदा द्विजा न, अधुना द्विजा:'- इत्यभिधाय पटी दर्शिता । 'तदा मया प्रतिज्ञातमासीत्, यद् भवतां रुधिरेण इमां रञ्जयामि । इष्टदेवतां स्मरत' । तैरुक्तम्- 'अधुना त्वमेवेष्टदेवता । यद् रोचते तद् विधीयताम्' । इतः कुण्डी समानीता । तत्र द्विजानामङ्गुलीचीरणं विधाय सा रुधिरेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org