________________
कुमारपालदेवप्रबन्धः ।
२३९
४४. एकदा श्रीपत्तने द्वात्रिंशद्विहारकाणां प्रतिष्ठां महदुत्सवेन प्रारब्धां श्रुत्वा वटपत्र (द्र ) पुरनिवासी वसाहकान्हाकः स्वयंकारितप्रासादबिम्बमादाय श्रीपत्तने प्रतिष्ठार्थमाययौ । श्री[हे]माचार्याः प्रतिष्ठार्थेऽभ्यर्थिताः । तैर्मानितम् । इतस्तस्मिन् दिने जनसम्मर्दो जातः । रात्रौ घटी मण्डिता । इतो वसाहस्य भोगाद्युपस्करो विस्मृतः । तेन त[माने]तुं गते असमये लग्नघटी वादिता । असौ समागतः । मध्ये प्रवेशं अलब्ध्वा 5 लग्नघटीं श्रुत्वा विषि (ष) ण्णः । प्रतिष्ठापश्चाज्जनो विरलो जातः । कान्हाकोऽप्यन्तः प्रविश्य गुरूणां चरणयोर्लगित्वा बाढं रुरोद - ' मदीयं बिम्बं प्रभो ! स्थितम्' । गुरुभिरूर्ध्वमवलोकितम् । लग्नं तदा वहमानं विलोक्योक्तम्- 'भो ! त्वं पुण्यवान्, लग्नमधुनाऽस्ति । परिच्छदं कुरु बिम्बप्रतिष्ठायाम्' । स न मन्यते । गुरुभिः प्रतिष्ठां विधाय उक्तम्- 'यदि न मन्यसे तथा (दा) देवं पृच्छ, एतत् तथ्यं न वा ?' | 10 बिम्बेनोक्तम्-‘भो ! तव बिम्बं वर्षशतत्रयायुः । एतानि वर्षत्रयायूंषि भविष्यन्ति' ।
इतः कश्चिद् व्यवहारी स्तम्भतीर्थं वाणिज्याय गतः । तत्र तेन श्रीदेवाचार्या नमस्कृताः । पृष्टम्-‘किमद्य कल्ये नृपः पुण्यकर्म तनोति ? ' । 'द्वात्रिंशद् विहाराणां प्रतिष्ठा जाता । तस्य उछ (त्स) वस्य किं कर्ण (वर्ण्य) ते ?' । 'लग्नं वेत्सि ?', 'अमुकमनुमानम्' । 'इदं लग्नं हेमाचार्यैनिरूपितं न वा ? यदि निरूपितं तदा म [ह]त् 15 [क्षु]ण्णं जातम्' । स पुनः पत्तनमाययौ । हेमाचार्यैः पृष्टम् -'श्रीदेवसूरयो नमस्कृता: ?' । स्वरूपमुक्तम् । 'त्वया कारणं किमपि न पृष्टम् ?' 'मया ज्ञातं यदुन्नतिम[स]हमानाः कथयन्ति' । इतः श्रीदेवाचार्याः पत्तनमायाताः । श्रीहेमाचार्यान्नमस्करणा[र्थम् ] आगच्छतो दृष्ट्वा उक्तम्- ' तपोधना ! नृपगुरूणामर्थे उपवेशनमानयत' । श्रीहेमाचार्या विस्मिताः, यावद् वन्दन्ति तावदुक्तम्- 'हे नृपगुरवः ! 20 इहाऽऽस्यताम्' । हेमा० उक्तम्- 'प्रभो ! ममोपरि कथमप्रसादः ? प्रभुभिरहं दर्शनविरुद्धे पथि सञ्चरन् दृष्टः श्रुतो वा ?' । 'कथयत, प्रतिष्ठालग्नं भवद्भिः निरूपितं न वा ?' । 'निरूपितम्' । 'तत्र क्रूरकर्तरीयोगोऽस्ति । एतलग्नं पूर्वकृतानामपि प्रासादानामनर्थहेतुः'। ‘भगवन् ! किं क्रियते ?' गुरुभिरुक्तम्- " स्तोकदोषं बहुगुणं कार्यं कार्यं विचक्षणै: " इति विचिन्त्य यदमी प्रासादा मूलतोऽप्यपाकृत्य नूतनास्तदा सर्वेऽपि प्रासादाः स्थिरं 25 स्युः' । 'प्रभो ! एतन्न युज्यते' । ' तर्हि भवितव्यतैव बलवती । भवतां कोऽपराधः' ।
88४५. इत एकदा श्रीहेमाचार्याणां [ शिष्यः ] यशश्चन्द्रगणि[ : ] स्तम्भतीर्थे गतः । तत्र सुखासनारूढश्चतुष्पथं वक्रमवलोक्य पप्रच्छ - 'कथमत्र वक्रम् ?' | 'अस्य जैनप्रासादस्य देवकुलिकाचतुष्कमिहास्ते तेन कारणेन चतुष्पथं वक्रम्' । 'देवकुलिका निपात्य सरलीकृ(क्रि)यताम्' । तासु पात्यमानासु गोष्ठिकैः कलकलः कृतः । तथापि 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org