________________
२३८
कुमारपालचरित्रसङ्ग्रहः
पूर्वजा उद्धृताः कष्टा [त्त] तस्तेन सर्वं कृतम्' । गुप्तेः कृष्ट्वा देवताऽवसरं मालवकं च दत्त्वा प्रस्थि (स्थापितः ॥
20
§§४३. कदाचित् कुमारपालनृपतिः सङ्घाधिपतीभूय तीर्थयात्रां चिकीर्षुर्महता 5 महेन देवालयप्रस्थाने जाते देशान्तरायातयुगलिकया 'त्वां प्र[ति] डाहलदेशीयः कर्णनृपतिरूपैति' इति विज्ञप्तः । स्वेदतिलकितं ललाटं दधानो मन्त्रिवाग्भटेन सार्द्धं ससाध्वसं ध्वस्तसङ्घाधिपत्यमनोरथः प्रभोरुपान्ते स्वं निनिन्द । अथ तस्मिन् नृपतेर्महाभये समुत्पन्ने किञ्चिदवधार्य - 'द्वादशे यामे भवतो निर्वृतिर्भविष्यति' इति आदिश्य विसृष्टो नृपः । किङ्कर्त्तव्यतामूढो यावदास्ते, तावन्निश्चितवेलासमागतयुगलिकया- 'श्रीकर्णो दिवं 10 गतः' इति विज्ञप्तः । नृपेण ताम्बूलमुत्सृजता 'कथम् ?' इति पृष्टौ तावूचतुः - 'कुम्भिकुम्भस्थलस्थः श्रीकर्णो निशि प्रयाणं कुर्वन् निद्रामुद्रितलोचनः कण्ठपीठप्रणयिना सुवर्णशृङ्खलेन प्रविष्टन्यग्रोधपादेन उल्लम्बितः पञ्चतामञ्चितवान् । तस्य संस्कारानन्तरमेव आवां प्रचलितौ'- इति ताभ्यां विज्ञप्तः । तत्कालपौषधवेश्मनि समागतो नृपः प्रशंसापरः, कथं कथमप्यपवार्य द्वासप्ततिमहासामन्तैः समं ससङ्खेन च प्रभुणा द्विधोपदिश्यमानवर्त्मा 15 धन्धुक्कनगरे प्रभूणां जन्मभूमौ प्राप्तः । स्वयं कारितसप्तदशहस्तप्रमाणे श्रीझोलिकाविहारे प्रभावनाविधित्सुर्जातिपिशुनानां द्विजानामुदितमुपसर्गं वीक्ष (क्ष्य), तान् निर्विषयताडितान् कुर्व्वन्, श्रीशत्रुञ्जयतीर्थमाराधयन्, 'दुक्खक्खओ कम्मक्खओ' इति प्रणिधानदण्डकं उच्चरन्, देवस्य पार्श्वे विविधप्रार्थनावसरे
इति नरवर्मप्रबन्धः ॥
✡
Jain Education International
इक्क फुल्लह माटि देइ जि सग्गह तणां सुह ।
एवड करइ कु साटि बपुरे भोलि म जिणवरह ॥५६॥
इति चारणमुच्चरन्तं निशम्य नवकृत्वः पठितेन नवसहस्रान् तस्मै नृपतिर्ददौ । तदनन्तरं उज्जयन्तसन्निधौ गते तस्मिन् अकस्मादेव पर्वतकम्पे सञ्जायमाने श्रीहेमाचार्या नृपं प्राहुः - 'इयं छत्रशिला युगपदागतयो [ : ] पुण्यवतोरुपरि पतिष्यति' इति वृद्धपरम्परा । तदावां पुण्यवन्तौ, यदि गीः सत्या भवति तदा लोकापवादः । ततो नृ[प] तिरेव देवं 25 नमस्करोतु न वय[मि]त्युक्ते नृपतिनोपरुध्य सङ्घन सह प्रभवः प्रहिताः । स्वयं छत्रशिलामार्गं परिहृत्य जीर्णदुर्गे नवपद्याकरणाय वाग्भटदेव आदिष्टः । तत्पद्याकृते व्ययीकृतास्त्रिषष्टिलक्षाः ॥
॥ इति तीर्थयात्राप्रबन्धः ॥
For Private & Personal Use Only
www.jainelibrary.org