________________
कुमारपालदेवप्रबन्धः ।
२३७
नृपः प्रतिक्रम्य धवलगृहं गच्छन् कपर्दिनं प्राह - ' भो भाण्डागारिक ! " गीतं न गायतितरां युवतिर्निशासु" इमां समस्यां यदि प्रातरर्वाक् पूरयसि तदा पट्टाश्वं दद्मि । कपर्दिना पूरिता
श्रुत्वा ध्वनेर्मधुरतां गगनावतीर्णे, भूमौ मृगे विगतलाञ्छन एष चन्द्रः । मा गान्मदीयवदनस्य तुलामितीव; गीतं न गायतितरां युवतिर्निशासु ॥ ५२ ॥
राज्ञा पट्टाश्वो दत्तः । एकदा श्रीगुरुभिः शिक्षा दत्ता -
सदा सदाचारवने यतेथाः,
मा क्वापि सप्तव्यसनीं भजेथाः ।
दीनेषु दौस्थ्यं परिखण्डयेथाः; की
त्रिलोकीमपि मण्डयेथाः ॥५३॥
४२. एकदा नृपे सभामुपविष्टे मालवीया: प्रधाना नृपं नत्वा सभायामुपविशुः । इतो नृपेन (ण) खड्गं कोशादाकृष्य पुनः क्षेप्तुमारब्धम् । न विशति । इतः प्रधानैर्मिथो मुखावलोकनं कृतम् । ततः पुरोहितेनोक्तम्
सौराष्टप्रभृतिक्षितीश्वरशिरः श्रेणीषु कृन्तास्वपि, प्रत्याकारमुखप्रवेशविमुखस्तिष्ठन् कृपाणोऽधना । धाराध्वंसकृतप्रतिज्ञभवतश्चौलुक्यचूडामणे !;
मन्येऽहं नरवर्मचर्मघटितां कोशश्रियं वाञ्छति ॥५४॥
Jain Education International
5
10
तत्कालं सैन्यानि सज्जयित्वा नृपो मालवकं प्रत्यचालीत् । वर्षत्रयवि [ग्र] हेण 20 धारामाददे । नरवर्मनृपं वादाय श्रीपत्त[ न मायातः ।
For Private & Personal Use Only
15
एकदा नरवर्मेण राज्ञः किमपि महत् कार्यं कृतम् । नृपस्तुष्ट उक्तवान्- 'वरं वृणु'। इतः सभा श्यामवक्त्रा जाता । असौ माला व ]कं याचिष्यते । इतो नरवर्मभूभुजा उक्तम्-‘देव ! मम देवताऽवसरः प्रसादीक्रियताम् । अपरं न याचे' । तत्र वृद्धभोजनृपकरोडिः स्वर्णरत्नजटिताऽस्ति । तथा सीताया वने यान्त्या नृपदशरथेन 25 मुद्राऽर्पिता-‘बहुडी ! इयं गृह्यताम्' । सा 'बहुडी' इति ख्याता । सा च तत्रास्ति । हेममयी मण्डपिका, चिन्तामणिर्गणपतिः, इन्द्रनीलमयो नीलकण्ठ:- एतानि वस्तूनि सन्ति । तत्. श्रुत्वा सभा हृष्टा । नृ[प]स्तु श्यामो जातः । प्रधानैः पृष्टम् - 'देव ! हर्षस्थाने को विषादः ? यत्र मालवको गणितः, तत्र देवताऽवसरेण किम् ?' 'यूयं मूर्खाः, येन
www.jainelibrary.org