________________
२३२
कुमारपालचरित्रसङ्ग्रहः
कस्याऽसौ विदितो न गूर्जरपतिः श्रीसिद्धराजादनु ॥४२॥ -इति कविभिः स्तूयमानो राज्यं करोति स्म ।
इत: केनाप्युक्तम्-'देव ! स भृगुकच्छे श्रेष्ठी समायातः । नृपेणाहूय व्यतिकरं 5 पृष्टः । स आह-'देव ! वाहनाने(न्ये)कपर्वतान्तराले पतितानि । तत्र वायुप्रचारो न ।
व्याकुलीभूतो जनः । नियमिकेणा(न) उक्तम्-'योऽत्र पर्वतेऽधिरुह्य भारण्डपादे स्वं बद्ध्वा रात्रौ तिष्ठति, प्रातस्ते उड्डीय पञ्चशैले द्वीपे यान्ति । तत्र गतो भारण्डानुड्डापयति । तेषां पक्षि(क्ष)वातेन वाहनानि चलन्ति । मागं लभन्ते' । ततः श्रेष्ठी वणिक्पुत्रान्
मुत्कलाप्य जनानामुपकाराय पञ्चशैले गतः । तत्र पक्षि[ण उड्डापितानि(पिताः) । ततः 10 श्रेठी पञ्चशैलाधिपतिवा(ना) उत्पन्नकरुणातिरेकेण वाहनिकानां तटस्थानां मेलितः ।
नृपेण श्रुत्वा सत्कृत्य प्रहितः ॥
15
कुमारपालकृतायास्तीर्थयात्राया वर्णनम् । 88३३. अथैकदा[वै]पेण गुरवोऽभिहिताः । .......यात्रायै मुहूर्तमवलोकितम् । महदुत्सवेन प्रस्थान(नं) कृतम् । सर्वत्र कुङ्कमपु(प)त्र्यः प्रहिताः ।
वाहनौषधि-पाथेयसहाय( यं) वृषभादिकम् ।
यत् यस्य नास्ति तत् तस्मै नृपः सर्वं प्रदास्यति ॥४३॥ ___इतश्चारैरागत्योक्तम्-'देव ! डाहलदेशीयः कर्णो लक्षैस्त्र(स्त्रि)भि[रवानां] गजानां चतुर्दशभिः शतैः, विंशतिलक्षपत्य(त्त्य)न्वितो गूर्जरात्रौ उपर्येति' । तत् श्रुत्वा नृपो व्याकुलः सन् प्रभूनाह-'भगवन् ! अन्तरायमिव बुध्यते । यात्रा क्रियते वा परचक्रसम्मुखं 20 गम्यते । द्वयं कथं स्यात् ?' । 'देव ! स्वस्थैर्भाव्यम् ।
श्रेयांसि बहुविध्नानि भवन्ति महतामपि ।
अश्रेयसि स(प्र)वृत्तानां क्वापि यान्ति विनायकाः ॥४४॥ परमेश्वरप्रसादात् सर्वं[भव्यं] भविष्यति । विषादो न विधेयः' । इतस्त्रयत्रिंशतित(०यस्त्रिंशत्त०)मे दिने निवृत्तिरेष्यति । ......उच्यते २५ मे दिने नृपो राजपाट्य(ट्यै) 25 चचाल । अश्वेनापहृतो व्रजन् वटस्य तरोरधो गतः । वेगवशात् शृङ्खलं शाखायां उत्सल्य
लग्नम् । गले पासकः समायातः, तुरगो गतः । नृपान्वेषका[अ]श्वमादाय गताः । नृपे मृते शाखया भग्नया नृपो भूमौ पपात । इतः श्रीकुमारपालदेवचर आखेटिकरूपेण नृपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org