________________
कुमारपालदेवप्रबन्धः ।
२३३
पतितं गरुडो हारकुण्डलकान्त्या व्याप्तं दृष्ट्वा भीत इव समीपमायातः । सकुण्डलं नृपसि(स्य) शिरश्छित्त्वा आभरणान्यादाय, स्थाने स्थाने मुक्तैरश्वैः, निर्णीते दिने नृपमेत्य वर्द्धापयामास । नृपेण पारितोषिकं दत्तम् । नृपशिरसः संस्कारं कृत्वा महदुत्सवेन यात्रां चक्रे ।
10
६६३४. तथा एकदा आनाकः सपादलक्षाधिपतिः शाकम्भरपुनि (शाकम्भरिपुर्नि)वासी श्रीकुमारपालदेवभगिनीपतिः । पत्न्या सह क्रीडन् सारैस्तासां मारिमुच्चरति । इतः श्रीप्रेमलदेव्या पत्तने नृपाय ज्ञापितम् - यदसौ सारीणां मारिं कथयति इति च वदति-‘तव बन्धोरेषाऽनिष्टा मम तु इष्टैव । वरं मे वैधव्यमप्यस्तु परं [इदं व]चः सोढुं नोत्सहे' । राजा कटकमादाय चलितः । कथापितम् - 'यदस्य जिह्वां पाश्चात्ये कर्षयामि' । इतः श्रीआनाकोऽपि गुडहापुरे सपादलक्षसीमायां सम्मुखः समायातः । तत्र युद्धे जायमाने श्रीकुमारपालः स्वगजात् कलहपञ्चाननादुत्प्लुत्य आनाक गत्वा तं जयाभिः (ज्याभि: ?) कृष्ट्वा बबन्ध । पश्चात् सहाऽऽयाताः श्रीदेवसूरयः, हेमाचार्याश्च विज्ञप्ताः - 'मम प्रतिज्ञा जिह्वाकर्षणलक्षणा, अतः किं क्रियते ? ' गुरुभिरुक्तम्-‘देव ! एतन्न युज्यते । तथा कुरु यथा टोपीं कारयित्वा तत्र पाश्चात्ये जिह्वां विधाय, कृष्टेत्युक्त्वा मुच्यताम्' । तथा कृत्वा 'पुनर्न वाच्यम्' इत्युक्त्वा पुन (ना) राज्ये संस्थाप्य मुक्तः । तदा श्रीकुमारपालेन तत्र देशे पाषाणमयान् घाणकान् दृष्ट्वा सर्वानभञ्जयत् । पश्चान्निवृत्त्य स्वपुरं गतः । विश्वमल्लः शाकुं ( कं ) भरीराज्यं करोति ।
15
5
§§३५. अत्र सिद्धराज्ञि दिवङ्गते गूर्जरात्राशालापतयः अजयमेरुदुर्गप्रत्यासन्ने बछरापुरे गताः । श्रीविश्वमल्लेन गूर्जरा[ त्रा यां यान्ति पटकुलानि निषिद्धानि । गृह्णा (ह्णा ) ति ( ? ) स महादण्डेन दण्ड्यते ।
20
एकदा कोऽपि स्कन्धवाहिक: बछेरे गतः । एकं श्वेतपट्टकूलं क्रीतं नलीप्रयोगेन पत्तने राजसदसि नृपोपायने कृतम् । स्वरूपे ज्ञा[ते] भाण्डागारिकस्यार्पितम् । यदेतत् वसनार्थे स्थाप्यम् । अस्माकं तनयस्य चाहडस्य न दर्शनीयम् । इतः प्रातर्नृपति (ती) राजपाट्यां निःसृतः । चाहडं प्रतीक्षन्नस्ति । चाहडेन भाण्डा० सकाशात् पटो याचितः । तेनोक्तम्–'नृपादेशो नास्ति' । 'मम को नृपादेश: ?, समर्पय' । गृहीत्वा प्रावृत्यागच्छन् 25 नृपेन(ण) दृष्टः । सामन्तैरुक्तम्- 'वणिक् (ग्) नृपेन (ण) नादेरोपितो (?) नृपाऽऽज्ञामपि न मन्यते' । इतो न्यग्मुखं नृपं दृष्ट्वा कुमारेणोक्तम्- 'देव ! मया तत् कृतं नास्ति येन तातः कृष्णवदनः स्यात् । परं क्षीरोदकानामेषामप्राप्तिहेतुः बीटकप्रसादं कुरु, यता तेषां सुभिक्षं करोमि । नृपो न यच्छति । 'भोक्ष्ये मार्गे भूय' ततो नृपेन (ण) घोटकसहस्र २४, गज २४, लक्षपत्य(त्त्य)न्वितः प्रहितः । वीसलदेवनृपस्तु सम्मुखमाययौ । सीमायां चाहडेन भग्न: 30
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org