________________
कुमारपालदेवप्रबन्धः ।
कुमारपालनिवारितमृतधनाहरणवर्णनम् ।
§§३२. अथैकदा नृपो भृगुपो भृगुकच्छं गतः । तत्र कश्चित् श्रेष्ठी अपुत्रः प्रवहणमधिरुह्य परद्वीपे गतः । इतो वार्ता विनष्टस्य जाता । राजा (ज) पुरुषैर्गृहं रुद्धम् । तत्पत्नी सपरिवारा विलपितुं प्रवृत्ताः । नृपः कोलाहलमाकर्ण्य वण्ठं प्रे ( क्ष्य)ष्य वृत्तं ज्ञात्वा प्रातः स्व[यं त] स्य गृहे गतः । तत्पत्नीमाहूयाऽऽह - ' तव प्रियो यद्येति तदा 5 भव्यम् । नैति तदा गृहसारं भुङ्क्ष्व' - इत्युक्त्वा तां सम्बोध्य श्रीपत्तने गतः । पौषधागारमागत्य प्रभुं पप्रच्छ - 'प्रभो ! पुत्राः कियन्तः ?' । तैरुक्तम्- '११' ।
औरसः क्षेत्रजश्चैव पुत्रिकापुत्र एव च ।
दत्तः क्रीतः कृत्रिमश्च तथाऽन्यौ कुण्ड - गोलकौ ॥३६॥ कानीनो नवमः पुत्रो दशमो भ्रातृजस्तथा । एकादशो भवेत् पुत्रो धनग्राही महीपतिः ||३७||
यस्तस्य पट्टकं गृह्णा(ह्णा) ति लक्षपञ्चकं यावत् तस्य; ऊर्ध्वं नृपस्य' । 'भगवन् ! मया कियता पुत्रेण भाव्यम् ? अतो मृतद्रव्यस्य नियमोऽस्तु' । तदा प्रभुणोक्तम्अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः ॥३८॥ तत: 'मृतस्वमोक्ते 'ति नाम पप्रथे ।
Jain Education International
सिरिभरहनिवाओ जं [न] केणावि मुक्कं, अइमयधणं जो जं च पावाण मूलं । निअजणवयसीमं वारए जो अ;
जूअप्पमुहवसणचक्कं सो वरो मज्झ होउ ॥३९॥ इति धर्मनरेन्द्रसुताया [अ] हिंसाया वाक्यम् । इति हिंसायाः - श्रीमन्नन्तकतात ! तात तनये हिंसे विहस्ताऽस्ति किं, किं त्वं वेत्सि सुखान् स्वकीयदुहितुर्वैधव्यदुःखं न हि । मय्युत्तीर्णमना: कुमारनृपतिस्तां जीवरक्षां व्यधात्; संसक्तः करुणास्त्रियां स्वविषयान्निर्वासयामास माम् ॥४०॥ पूर्वं वीरजिनेश्वरे भगवति प्रख्याति धर्मं स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्त्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधात्; यस्या सा[ द्य ] वचः सुधांशुपरमः श्रीहेमचन्द्रो गुरुः ॥ ४१ ॥
२३१
For Private & Personal Use Only
10
15
20
25
www.jainelibrary.org