________________
२३०
कुमारपालचरित्रसङ्ग्रहः इति मत्वा अधोगवाक्षस्य समुद्रस्तत्र शिप्रां ढाला(ल)यामास । चेटी उक्ता-'तिष्ठतु' । सा काकरोत्पपात(?) । इतस्तेन वशीकृतः समुद्रो नृपरूपं कृत्वा रात्रौ आयातः । स देव्या नृपवदुपचरितः, नित्यमेति । इतो देवी सगर्भाऽभूत् । चेटी प्राहिणोत्-'देव !
सीमन्तोन्नयनाय मुहूर्तं अस्मत्स्वामिन्या गणापयत' । नृप आह-'का त्वम् ? का तव 5 स्वामिनी ? अहं नामापि तस्या न जाने । कस्य सुता ?, कदा परिणीता ? । तया [यदकृ]त्यं कृतम् । मम किमुच्यते ?' । साऽऽगत्य देवीं प्राह । तयोक्तम्-‘समये ज्ञास्यते' । इतः पुत्रो जातः । सूतकशुद्धेरनन्तरं बालमादाय प्रतोलीमेत्योपविष्टा-'मम शुद्धिं यच्छत । जातायां बालः स्तनं ग्रहीष्यति' । नृपेणोक्तम्-'मम साराऽपि न अधुना ।
खड्गेन परिणीता श्रुता, परं दृष्टाऽपि न । पुत्रस्य का वार्ता ?' । प्रधानानप्रैषीत्-'एतद् 10 मम न दूषणम्, तव, मया न सोढ[व्य]म्' । सा न मन्यते । पट्टराज्ञी प्रहिता । स्त्री स्त्रीभणितेन परिच्छिद्यते । सा एत्यावादीत्-'किमिदमारब्धम् ?' । तयोक्तम्-'तव कुले इदं घटते, मम तु न' । नृप[:] स्वयमेत्य प्राह-'तव ममाधुना दर्शनं न, पुत्रस्य का कथा ?; उत्थीयताम्' । 'देव ! सर्वथा न, भा(वा) पि दिव्यं विना वाच्या । प्रधानैदिव्यं
दत्तम् । राज्ञी सुतमादाय बहिर्ययौ, पौरसहितो नृपश्च । तत्र लोहमयी नौः, तस्यां 15 समधिरोप्य दिव्यकर्ता क्षिप्यते । शुद्धे तरति, अशुद्ध ब्रुडति । सा राज्ञी इतिकामा श्रावणिकामकार्षीत् ।
आदित्य-चन्द्रावने( न्द्रावनिलो?) यमश्च, द्यौर्भूमिरापो हृदयं मनश्च । अहश्च रात्रिश्च उभये( भे च ) सन्ध्ये;
धर्मो हि जानाति नरस्य वृत्तम् ॥३५॥ इत्युक्त्वा नावमधिरुरोह । सपुत्रापि ब्रुडिता । लोकः कलकलं यावत् करोति, तावन्नावमधिरूढा देवी सशृङ्गारा, [शृङ्गार] कोटिसाटीपरिदधाना, सहस्रकिरणताडङ्काभ्यामलङ्कृतकपोला, पापक्षयेन हारेण विराजमानवक्षःस्थला, माणिक्यपटेनाच्छादितबाला, संयोगसिद्धिशिप्राकरा सर्वैरपि हृ(दृ)ष्टा । शुद्धताऽऽललाप । नृपेण मध्ये 25 प्रवेशिता । नृपो रात्रौ तद्वेश्मनि इयाय । तयोपचरितः पृष्टवान्-'अहं सर्वथा न जाने,
वं(त्वं) तु सत्येव, या समुद्रेण शोधिता' । इतः समुद्रदेवेन प्रत्यक्षीभूय आदितोऽपि स्वरूपमुक्तम्-'नास्या अपराधः' । नृपेण सुतस्य बालधवल इति नाम दत्तम् । सा राज्ञी पट्टराज्ञी कृता । एतानि [रत्नानि तयैव समर्पितानीति] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org