________________
कुमारपालदेवप्रबन्धः ।
२२९ कर्षत । ततः कृष्ट्वा स्नानं कार्यम् । यदा [स] जल्पिष्यते तदा त्वमपि सज्जा भविष्यसि । दिनत्रयान्तेऽम्बडः सज्जो जातः । साऽपि च ।
इतः श्रीसङ्घान्वितो नृपः पादमवदारितः । गुरुभिः साकमम्बङः सम्मुखो(खं) ययौ । अम्बडेन दत्तकरा गुरवः प्रदक्षिणां यच्छन्ति । प्रासादं तुङ्गमालोक्य गुरुभिरुक्तम्'मया दे[व]-गुरुं विना कोऽपि न स्तुतः; परं तव कीर्तनेन किञ्चित् वक्षा(क्ष्या)मः' । 5 'आदिशत'
किं कृतेन न यत्र त्वं [ यत्र त्वं किमसौ कलिः ।
कलौ चेत् भवतो जन्मि(न्म) कलिरस्तु कृतेन किम् ॥३३॥ प्रतिष्ठा जाता । आरात्रिकोत्तारणाय नृपो विज्ञप्तः । त्वमेवोत्तारय' । वाग्भटेनाप्यनुमतः । कर्तुमुद्यतः । नृपेण शृङ्खलं स्वकण्ठादुत्तार्याम्बङगले क्षिप्तम् । तेन 10 याचकानां पठतां गृहसारं दत्तम् । द्वारभट्टस्य तस्मिन् शृङ्खले दत्ते नृपेणोक्तम्-'उत्तारय' । तथाकृते अम्बडेन पृष्टम्-'देव ! किमुत्सुका जाताः ?' । 'मया ज्ञातम्, भवान् जीवमपि दास्यसि; मम त्वया बहुकार्यमस्ति' । सङ्घार्चादिषु जातेषु पुनः सङ्घः पत्तनं प्राप्तः । तत्र चैत्यबलानके तं ९घडीसुवर्णस्य चतुरस्त्रं कलशं ददौ ।
20
६६३१. अथैकदा नृपः सेवाऽऽयातं मल्लिकार्जुनसुतं प्राह-'पापक्षयादिरत्न- 15 पञ्चकस्य उत्पत्तिं वद' । 'देव ! मल्लिकार्जुनादेकविंशतितमः पूर्वजो धवलार्जुनः । तस्य पञ्चदश प्रिया आसन् । एका नरेन्द्रसुता खड्गेन परिणीता । [तां] आनीय बन्दी(न्दि)वत् मुक्ता । नृपस्तां वेत्तीव न शेषा मान्यतमाः । सा तु दैवमेव उपालभते स्म । अन्यदा पुरे काचित् परिव्राजिकाऽऽगता । सा चेटीभि(भी) राज्ञीसकाशमानीता । तयोक्तम्-'किं वेत्सि ?' । साऽऽह
दंसेमि तं पि सुणं( ससिणं) वसुहावइन्नं, थंभेमि तस्स वि रविस्स रहं नहद्धे । आणेमि सव्वसुरसिद्धगणं गणाओ;
तं नत्थि भूमिवलए मह जं न सज्झं ॥३४॥ प्रसीद, मम पतिं वसी(शी)कुरु' । तया करे सर्षपा वावि(जपि)त्वाऽर्पिताः । 25 यथा तथा नृपस्य [भोजन] मध्ये देयाः । शाकं कृत्वा शिप्रां भृत्वा चेटयुक्ता‘भोजनावसरोऽस्ति देवस्य नीत्वा परिवेषय' । सा शृङ्गारं कर्तुं गता । देव्या चिन्तितम्'न ज्ञायते कदाचिदेषा वैरिणा प्रहिता स्यात्], तदा मे पतिमारिकायाः का गतिः स्याद्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org