________________
२२८
कुमारपालचरित्रसङ्ग्रहः शिरश्छित्त्वा वहिआलेः किशोरसप्तशतीः शेषतुरङ्गाश्च, भाण्डागारं, कोष्ठागारं, सेडुअकं दन्तिनं, नवघडी हिरण(ण्य)स्य, चतुरस्रं कलशं, मूटक ९ मौक्तिकानां, शृङ्गारकोटिक [शाटी], सहस्रकिरणताडङ्कः पापक्षयो हारः, माणिकउ पछेडउ,
संयोगसिद्धि शिप्रा-एवंविधं सर्वमादाय अम्बड[:] पत्तनं गतः । नृपः सम्मुखमाययौ । 5 मल्लिकार्जुनशिरसा नृपपादावपूजयत् । नृपस्तुष्टः । अम्बडस्य लाडदेशमुद्रां ददौ । हस्ती दत्तः । कलशश्च मल्लिकार्जुनजयसूचकः स्वगुप्तोदरे देयः ।
२९. इतो हस्तिनमधिरुह्य अम्बडः स्वगृहं गतवान् । [वाग्भ टदेवा(वो) नमस्कृतः।....... देवं नमस्कुरु । तथा कृते, कथितम्-'इयन्ति दिनानि राजपुत्रस्त्वमभूः,
अधुना व्यापारी जातः । श्रीहेमसूरीन् कुलगुरून् नमस्करउं(स्करोतु) । पौषधागारे गतः । 10 गुरवो नमस्कृताः । तैस्तु धर्मलाभो न दत्तः । आशीर्वादोऽस्तु । गृहे गत्वा उक्तम्-'अहं पौषधागारे प्रहितः, धर्मलाभस्यापि सन्देहः' । वाग्भटदेवेन गुरव उक्ताः । तैरुक्तम्'भृगुकच्छे गतः कथं प्रासादमुद्धरिस्य(ष्य)ति श्रीमुनिसुव्रतस्य ?, अनेकानन्यायान् विधास्यति' । मन्त्रिणा [तस्य] अग्रे उक्तम्-'मम गुरव उद्धृते प्रासादे हृष्टाः' । 'द्विवेलं
उद्धृते भोक्ष्ये, परं मम भूर्ज विना न वक्तव्यम्' । चलित्वा भृगुपुरे गतः । प्रवेशे जाते 15 मुञ्च(मञ्च)मुपविष्टः ।
६६३०. इतो देवीपूज(जि)का योगिनीभिरन्विता समेता । अनभ्युत्थिता समीपे [समे]त्य विवेश । अम्बडेन कूर्पराहता मञ्चकाद् बहि: पपात । मृतमृता । कर्मस्थाय: प्रारब्धः वर्षेसणं (ण सं)पूर्णः । शिलाकोटिघटितः प्रासादो जातः । राणकोदयनस्य
मनोरथश्च [सिद्ध:] । अम्बडे [न] श्रीपत्तने एका विज्ञप्तिः श्रीकुमारदेवस्य, एका 20 गुरूणाम्, एका वाग्भटदेवस्य, एका श्रीसङ्घस्य-एवं ४ प्रहिताः । वाग्भटेन श्रीगुरूणां
पुरतो विज्ञप्ति[:] मुक्ता । 'इदं किम् ?' । 'अम्बडस्य विज्ञप्तिः' । 'वर्षं गतस्याऽऽसीत्, अद्य का विज्ञप्तिः?' । 'विलोकयत' । प्रतिष्ठो(ष्ठो)परि आकारणं दृष्टम् । 'मन्त्रिन् ! एतत् सत्यम् ? । 'विज्ञप्तिः कथयति' । 'तर्हि चल्यताम्' । नृपो गुरुभिः सह प्राचालीत् ।
इतोऽर्द्धमार्गे जनः सम्मुख्य(ख)माययौ-यदम्बडो न शक्नोति । गुरवः सङ्ख 25 विमुच्य भृगुपुरे गताः । प्रक्षीणधातुरम्बडो दृष्टः । देवीप्रासादे गत्वा ध्याने निविष्टाः ।
इतो मुख्यपूजिकोदरे उदरवाढिर्जाता । सा कोकूयते । परिचार्यः समागत्य प्रभुमु(मू)चुः'अस्माकं स्वामिनी मुच्यन्ते(ताम्) । 'तथाऽम्बडोऽपि विमुच्यताम्' । 'स सकलो जा(ज)ग्धः, पीतश्च' । 'तङ्केषाऽपि मृ(नि)यताम्, जीवन्ती किं करोति ? एक एव सार्थोऽस्तु' । साऽत्यर्थं पीडिता प्रभूनेत्यावदत्-‘प्र(प्रा)सादं विधाय मां मुञ्चत' । 'अम्बडं 30 मुञ्च' । 'तरू(रुत?)वेष्टितं कृत्वा घृतकुम्भ्यां प्रक्षिपत । यदेति वक्ति-ममाऽप(र?)तिर्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org