________________
कुमारपालदेवप्रबन्धः ।
२२७
श्रीजैत्रचन्द्रं प्रणिपत्य भूपं, विज्ञापयत्येष कुमारपालः ।
एकादशानां धुरि [ श्च ] मुख्यो विष्णुस्तदंशाः परिरक्षणीयाः ॥३०॥
तदोक्तं नृपेण-‘भव्यं ज्ञापित:' । गङ्गातटे जालान्येकत्र कृत्वा लक्ष ९ ज्वालयामास । तत्र जीवदया उघृष्टा ।
Jain Education International
✡
कुङ्कणविजेतृभट-अम्बडवृत्तम् ।
'अब- 15
§§२८. अन्यदा कुङ्कुणे जालं पतन्तं श्रुत्वा महिरावण(णा)धिपतिं मल्लिकार्जुनं प्रति दूतं प्राहिणोत् - ' तथा विधेयं यथा जालं न पतति तव देशे' । तेन विज्ञापितम् - 'यदावयोरेष पणःकुङ्कुणाधिपतिर्गुर्जरात्राधिपतेः स्थगिकायां पत्राणि पूरयति । तत् करोमि, अन्यद् अधिकं न जाने । अत्र जना मत्स्यमांसरताः प्रायः अन्नदौःस्थ्यात्' । श्रीकुमारपालेन कथापितम् - ' यदन्नं तथा प्रक्षि (प्रेषयिष्ये यथा यत्तवार्थो भवति' । 10 तेनोक्तम्-‘सर्वथा नैतत्' । इतः श्रीकुमारपालदेवः क्रुद्धः सन् प्राह - ' को बीटकं मल्लिकार्जुनस्य परि गृहीस्य ( ग्रहीष्य ) ति' इति । श्रीबाहडदेव भ्रात्राऽम्बडेन बीटकं गृहीतम् । प्रौढकटकेन चलितः । तेन मार्गे घाटी रुद्धा । तत्र कटकं हतप्रहतं जातम् । अम्बडो निवृत्तः । कृष्णशृङ्गारः कृष्णाश्वः कृष्णगुप्तोदरः पत्तने बाह्ये स्थितः । नृपं नन्तुं न याति । नृपेणो(णो) परिस्थितेन गुप्तोदरं दृष्टम् । पृष्टम् - 'किमेतत् ?' । ( ब ) डोत्तारकः' । इतः सूर्यास्ते अम्बडो द्वारिकया प्रविश्य नृपं पाश्चात्ये नत्वा पृष्टौ स्थितः । ‘अग्रे एही'ति नृपोते, 'देव ! मया स्वस्वामिनः कालिमा नीता, अतो रात्रौ समायातः । यद्युज्जवलो भवामि तदा दिने समागच्छामि' । इतो नृपो बीटकमादाय उक्तवान्-'गृह्णीत' कोऽपि न गृह्णाति । तदा भट्टेनोक्तम्- 'यदि रासभः प्रचण्डा (ण्ड) स्तदा तुरगेन कथमुपमीयते ?, यद्युज्जवलो [ब] कस्तदा हंसेन कथं उपमीयते ?, यदि काको 20 मत्तस्तदा कोकिलास्वर.... स्यात् ? यदि भिक्षुर्दाता स्यात् तदा वणिक् (ग्) नृपप्रसादेऽपि क्षत्रियपौरुषान्वितः स्यात् ' - इत्युक्ते, अम्बडेनाऽऽगत्य बीटकं गृहीतम् । सभ्यैरुक्तम्'अग्रेऽपि कट[कं ]हत- विप्रहतं कृतम्, शेषमपि तथा करिष्यते' । इतो अम्ब नृपसमीपमागत्य जगौ- 'तुरगाणां पञ्चशतीमर्पय, अश्ववाराणां च' । स तान् गृहीत्वा उपरिपथेन हे[रकं] निक्षिप्य गतः । मल्लिकार्जुनं बेडायां स्थितं अश्वान् वाहयन्तं प्राह - 25 'भो !(०स्त्रं) कुरु' । अम्बडस्तं अङ्गाङ्गेन युद्ध्वा शिरोऽपातयत् । इतश्चारणेनोक्तम्
अंबड हूंत वाणिअs, मल्लिकार्जुन हूंतउ राउ । पाडी माथउ वाढिअउं, अउडिहि देविणु पाउ ॥ ३२ ॥
For Private & Personal Use Only
5
www.jainelibrary.org