________________
२२४
कुमारपालचरित्रसङ्ग्रहः गारिकं कपर्दिनं प्राहु :- ‘यन्मेहताग्रामे तिहुणसिंहः कौटुम्बिकः । तस्य पुत्राश्चत्वारः । लघोर्वधूः पद्मिनी । यदि साऽऽयाति तदा तस्यावाच्यप्रदेशे दिनत्रयं जापे दत्ते देवी प्रसीदति । एतदति दुष्करम्' । कपर्दिनोक्तम्-'चित(न्ता) न विधेया' । भाण्डा
गारिकस्तत्र गतः कौटुम्बिकगृहे । तेन सत्कृतः । प्रयोजनं दृष्टः (पृष्टम्) । भाण्डा० उक्तम्5 'लघुपुत्रवधू ममाप्य' । तेनोक्तम्-'कमिदमादिशसि ?' "एवमेव, विचारोऽपि न
कर्त्तव्यः'। तेनोक्तम्-'यदि भवतां विचारे समायातमिदम्, तदा एवमस्तु'। सुखासनेऽधिरोप्य पत्तने समायातः । श्रीहेमसूरिभिः परमान्नाहारपरैरविकृतचित्तैस्तस्या योनौ दिनत्रयं जापः कृतः । देवी तुष्टा । भाण्डागारिकस्योक्तम्-‘देवी तुष्टा, नृपतिबोधो
याचितः। इयं (मां) स्वस्थाने प्रेषयत' । भाण्डागारिकेण सर्वाङ्गीणाभरणां सवस्त्रां 10 सुखासनमधिरोप्य स्वयं सद्दग्गतः । स क्षुब्धः, पुनः किम् । भाण्डागारिकेणोक्तम्-'इयं
मदीया भगिनी, मया पितृ[ग] हं नीताऽऽसीत् । मम भगिनीपतिः क्व ?'। तं च सम्भूष्य गृहे गतः ।
88२२. अथ श्रीकुमारपालदेवः श्रीहेमचन्द्रमी(मू)चे-'भगवन् ! द्य(य)द्यादिशत तदा दन्तान् पातयामि, यैर्मासभक्षणं कृतम्' । गुरुभिरुक्तम्-‘देव ! दन्ता नेत्रे को 15 नासा-एतानि शरीरे रत्नानि । कथं तैविना शोभा । अतो दन्तनिक्र(क)ये प्रासादान्
कारयत' । एवं ३२ प्रासादा दन्तनिष्क्रये कारिताः । एकदा गुरूणां नृपः स्तुतिमकरोत्
___ श्रीहेमचन्द्रप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकसेतुम् ।
ललाटपट्टान्नरकान्तराज्याक्षरावली येन मम व्यलोपि ॥१८॥ 20 राजा तु द्विवेलमावश्यर्क करोत्येव । कटके द्रम्मलक्ष३६ग्रासिकस्य अनादि
राउल[स्य] जटामध्ये स्थापनाचार्यो ध्रियते । ततः कृष्ट्वा स्वर्णपट्टे स्थापिते नृपः प्रतिक्रामति ८४ राणकैः सह, मण्डलीक ७२ सह, [च]तुर्भि[:] महाधरैः सह प्रतिदिनं वं[दनां] ददाति, नवनवैः स्तोत्रैः स्तुतिभिर्वारके प्रतिक्रामति । नृपस्य देवीं भोपलां मुक्त्वा परस्त्रीपरिहारः । यदान(न्य)स्यां मनो याति तदा प्रायश्चित्ते ५१६ धर्मव्यये ।
25६६२३. अथैकदा व्याख्यानानन्तरं हरिहरपण्डितेनोक्तम्
पातु वो हेमगोपाल [ : ] कम्बलं दण्डमुद्वहन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.