________________
२२३
कुमारपालदेवप्रबन्धः ।
राज्ञा महामानं दत्तम् ।
88२०. एकदा सिद्धराजे धारायां गते द्विजैविज्ञप्त्म्-‘देव ! सर्वत्र माहेश्वरेषु स्थानेषु जैनाः प्रासादाः सन्ति । चतुरशीतिषु महास्थानेषु वृद्धनगरादिषु । तथा केदारे वाराणस्याम् उज्जयिन्यां नागद्रहे द्वारिकायां ...... पाटके देवपत्तनेऽर्बुदाद्रौ सिद्धपुरे मथुरायां हस्तिनापुरे भृगुपुरादौ च । सर्वत्र जिनप्रासादाः सन्ति । जैनस्थानेषु माहेश्वरा 5 न। यदि देवाज्ञा भवति तदा शत्रुञ्जये रैवतके च देवनाम्ना प्रासादाः कार्यन्ते' । राज्ञा[दत्तः] राजादेशः श्रीपत्तनसङ्घस्य । प्रलोक्य द्विधा कृतम् । द्विजैरुक्तम्-‘कथं नृपो मृतो दृष्टः, यदेवं राजशासनं विदार्यते ?' । तैरुक्तम्-'निवेदयत राज्ञः, शासनं विदारितम्; भवतां किम् ?' । तैर्नृपाय गत्वा निवेदितम् । नृपेणोक्तम्-'तत्र गतानां वार्ता' । धारां ति(वि)जित्य प्राप्तस्य प्रवेशे जाते सर्वः कोऽप्याशीर्वाददा[ना]य हेमाचार्यं विना 10 प्राप्तः। 'कथमत्र हेमाचार्या न सन्ति, यन्नायाताः ?' । द्विजैरुक्तम्-‘देव ! राजादेशं विदार्य केन मुखेनायान्ति ?' । इतस्तुर्ये दिने श्रीहेमाचार्यानागच्छतो वीक्ष्य नृपः प्राह'कस्मा[द्] भ्राता चिरादभ्येति ?' । इतः श्रीहे० उक्तम्-'देव ! सामग्री कुर्वतां दिना लग्नाः ' । नृपणोक्तम्
शीतलानं सुताजन्म दुर्वातदूषिता कृषिः ।
स्वजने मिलितस्थैर्यं स्वादुहीनं चतुष्टयम् ॥१६॥ तत आचख्युः- 'देव ! एषा सामग्री मेलिता, "भूमिं कामगवीं" इत्यादि उक्ते, द्विजैरुक्तम्-'देव ! पृच्छयन्ते राजशासनविदा[रणका]रणम्' । राज्ञोक्तम्
आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदो द्विजन्मनाम् ।
पृथग्( क् )शय्या च नारीणामशस्त्रो वध उच्यते ॥१७॥ 20 किमहं विरूपं कारितवान् ? प्रासादकारणे पुण्यं भवति'। 'देव ! श्रूयताम्भवताऽहं बन्धुत्वे स्थापितः । बन्धुः स यो बन्धोहितं चिन्तयति । त्वत्तः पूर्वेण नृपतिना केनापि प्रासादो न कारितः' । 'कथम् ?' 'इदं सिद्धक्षेत्रम, सिद्धस्थानेष्वसिद्धनिवेशो राज्यस्य क्षयहेतवे । अतः स्फाटितम्' । ततस्तत्र महेश्वरप्रासादाः स्थिताः ।
____15
६६२१. अथ श्रीहेमाचार्यास्त्रिभुवनस्वामिनी विद्यामाराधयितुकामा भाण्डा- 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org