SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २२२ कुमारपालचरित्रसङ्ग्रहः 88१८. एकदा श्रीसिद्धराजसभायां गताः । तत्र द्विजैरुक्तम्-'व्रजित:(०तिन:)सूर्यं न मन्यन्ते'। हेमाचार्यैरुक्तम् अधाम धामधामेदं वयमेव सदा हदि । यस्यास्तव्यसने प्राप्ते त्यजामो भोजनं सदा ॥११॥ 5 पुनरेकदा तैरेवोक्तं नृपसदसि विश्वामित्र-पराशरप्रभृतयो ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्टैव मोहं गताः । आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवा स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥१२॥ 10 श्री हे० उक्तम् सिंहो बली द्विर[ द]शूकरमांसभोजी, संवत्सरेण रतमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि; कामी भवत्यनुदिनं वद कोऽत्र हेतुः ॥१३॥ 15६६१९. अन्यदा द्विजैरुक्तम्- 'श्वेताम्बरा ! व्याकरणमस्माकमेव अधीयताम्' । इतः श्रीहेमचन्द्राभिधानं सपादलक्षमितं पञ्चाङ्गमल्पैरेव दिनैनिर्मितम् । पुरुषाः पुस्तकं गृहीत्वा कास्मीरं प्रहिताः । देव्यग्रे पुस्तकमधिवासितम् । प्रातः शलाकाक्षेपेऽहमिति निःसृतं दृष्ट्वा पण्डितैरुक्तम्-'एकदर्शनसम्मतमिति मत्वा देवी भारती न मन्यते'। पश्चादायाताः । एकेन मन्त्रिणा भ्रष्टाधिकारेणोक्तम्-'मां प्रेषयत' । स पुस्तकमादाय गतः । 20 तथैवाहमिति नि[:] सृतम् । मन्त्रिणोक्तम्-'सर्वदेव[म] यो नमस्कार: अकारेण भवेद्( द्) विष्णु( ष्णू) रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तस्यान्ते परमं पदम् ॥१४॥ इत्याख्याय भारतीमभ्यर्च्य पुनः पत्तनमाययौ । उत्सवेन राजकुले नीतं पुस्तकम् । ततः कविभिरुक्तम् भ्रातः ! संवृणु पाणिनिप्रलपितं कातन्त्रकन्था वृथा, मा कार्षीः कटुशाकटायनवचः क्षुद्रेण चान्द्रेण किम् । कः कण्ठाभरणादिभिर्बठरयत्यात्मानमन्यैरपि श्रूयन्ते यदि यावदर्थमधुरा श्रीसिद्धहेमोक्तयः ॥१५॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy