________________
कुमारपालदेवप्रबन्धः ।
२२१ तस्य मेवाडे ग्रामचतुष्कं दत्तम् । तपस्विवेषधरस्य क्षुधितस्य धरणिगश्रेष्ठिना गृहिणी उक्ता- 'अस्य भोजनं देहि' । तयोक्तम् - 'कथमसौ महुडासापातलां दास्यति ?' । तस्या[:] तां दत्त्वा भगिनीति मानिता । नृपस्तु मज्जाजैनो जातः ।
अथ हेमसूरिप्रबन्धः अथ येषां श्रीहेमसूरीणां प्रा(प्र)सादान्नृपेन(ण) धर्मो ज्ञातस्तेषां सम्बन्धः 5 प्रोच्यते
६१६. धन्धूकापुरे मोढज्ञातीयः श्रेष्ठिचाचउ । तस्य प्रिया पाहिणि[ : ] । सुत २- वृद्धः कान्हः १, [ लघुः ] चाङ्गदेवः २ । अन्यदा श्रेष्टि(ष्ठी) विपन्नः । पाहिणिर्बालकावादाय धवलक्कके किञ्चित् सगीनस्य महं० धरणिग[स्या ]धारे गता ।
इत: श्रीदेवचन्द्राचार्या मन्त्रिणो वन्दापनाय समायाताः । पौषधागारे स्थिताः । 10 मन्त्रिपत्नी पाहिण्या सपुत्रया सह वन्दितुमायाता । इतः पाहिण्यङ्गजो वर्षचतुष्टयमितः सिंहासने निविष्टः । गुरवः समायाताः । तं बालं वीक्ष्य पृष्टम्- 'मन्त्रिपत्नि ! एष भवत्या अङ्गज:?' | 'भगवन् ! अस्याः म[म स] गीनायाः । ज्ञात्वा वि(द्वि)प्रहरानन्तरं मन्त्रिपत्नी आहूय उक्ता-'एष शिशुरस्माकं दीयताम्, असौ प्रभावको भावी' । 'भगवन् ! मम पुत्राणां मध्ये यः कोऽप्युपकुरुते तं गृह्णी(ही)ध्वम् । परमस्य माता दूयते'। गुरुभिरुक्तम्- 15 'तव पुत्रा अस्मदीया एव' । तया मन्त्रिणोऽग्रे उक्तम् । तेन सप्रश्रयं सा पृष्टा, न मन्यते । एकदा सबालका गुरवश्छन्नं मन्त्रिणा स्तम्भतीर्थे प्रहिताः । पाहिणी दुःखपरां मन्त्री चरणयोर्निपत्याह-'त्वं मम माता; अहं तव सुतः । अमु पुत्र(त्र)मे देहि' । तया मानितः । क्रमेण दीक्षा जाता ।
६६१७. अधीतविद्यः सन् गुरुं आह-'भगवन् ! अहं काश्मीरे सरस्वती- 20 माराधयितुं यास्यामि' । निर्बन्धं कृत्वाऽऽत्मतृतीया एकं भारवाहकमादाय सिद्धपुरे गताः। स भारवाहको न तृष्यतिः(?) । दीक्षा दत्ता, यशश्चन्द्रेति नाम कृतम् । इतो स(रा)त्रौ देवी सम्मुखमायाता, प्राह-'वत्स ! नाहं तवागच्छतः प्रत्यवायं सहे । तुष्टाऽस्मि । पत्तने व्रज' । दिनप्रहरैकसमये पत्तने गुरूणां पार्श्वे गताः । गुरवो हृष्टाः । इत एको नरः समेत्याह-'पुस्तकान्यानीतास्मि(नि) सम्भालयत' । उत्थाय कण्ठालामध्ये आनीता[नि] 125 नरः सवृषोऽपि [अ] दृश्यो जातः । य: सन्देहो भवति तेषु पुस्तकेषु सर्वमस्ति । इतो गुरुभिः सूरिपदे स्थापिताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org