________________
२२०
कुमारपालचरित्रसङ्ग्रहः विना का नति: ?' उपस्करेष्वानीतेषु, मन्त्रपूर्वां पूजां कृत्वा , उक्तम् -
भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य ।
ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥९॥
इति [उ]दीर्य नतिः कृता । गण्डपतिनाथया(?)दिभिरुक्तम्-'एषा परमार्थतो 5 जिनस्यैव नतिः । देव ! न तेऽर्हस्य नतिः । काऽपरस्य ?' । इतो रात्रौ पूजोपचारान्
सज्जयित्वा, श्रीहेमाचार्याः सनृपा मध्ये प्रविश्य स्थाने स्थिताः । अर्द्धरात्रौ दीपेष्वपाकृतेषु प्रासादः कम्पितः-'भगवन् ! किमेतत् ?'; 'स्थिरीभवत' । इतो जटामुकुटमण्डितशिरा भस्मोद्भूतो वृषवाहनः प्रत्यक्षोऽभूत् । नृपेन(ण) नत्वा हृ(?)ष्टं-'देव !
आदिश, मया धर्मः कः कार्यः । कथं मम कटके मारिनिवत्तिष्यते ?' | सोमे० उक्तम्10
निवसइ हंसी कमलि जिम जीवदया जसु चित्ति ।
तसु पय तुम्ह आराहणिण होस्यइ अशिव निरत्ति ॥१०॥ भो महाराज ! अमुं गुरुं लब्ध्वा सन्देहो न विधेयः' । प्रातर्नृपेण दर्शनिन आहूय रात्रिवृत्तमुक्तम् । तैविमृश्य प्रोक्तम्- 'जिनं विनाऽन्यस्य कस्य' । ततो मांसाभिग्रहः
समस्तोऽभूत् । तदनु श्रावकत्वं सम्यगङ्गीचक्रे । 15 ६६१४. वाग्भटदेवः सर्वसर्वेश्वरः प्रधानः । कपर्दी भाण्डागारिकः कृतः । सज्जनकुम्भकारस्य चित्रकूट(ट) पाटीसहितं दत्तम् । स तत्र राजा कृतः ।
एकादश शतानि श्रीमालीवणिजां व्यापारिणः कृताः । पञ्चाणवति ९५ वणिजो ग्रामादिदानेन महातः(न्तः) कृताः । जिणहाश्रेष्ठेर्धवलक्ककं ददौ ।
88१५. एकदा वाघराग्रामात् शकटानि घृतस्य भृत्वा तिहुणसिंहव्यवहारक: 20 पत्तनमाययौ । मण्डपिकैः स्थितौ पातितः, कथञ्चिन्न छुटति । तेन राजगृहद्वारि पूत्कृतम् ।
नृपेणाकारितः । उपलक्ष्य प्रोक्त:- 'भो श्रेष्ठिन् ! क्व वससि ?' । तेनोक्ते स्थाने नृप[:] प्राह-'यत् शीतकाले कश्चित् योगी तव गौजार्यां त्वयापितकम्बलः सुप्तः, स कम्बलमनर्प्य गतः; तत् स्मरसि ? । तवारतिर्जाता भविष्यति ?'। 'देव ! कम्बलमात्रस्य काऽरतिः' । नृपेणोक्तम्- 'सोऽहम् । तव ना[म्ना] योऽन्योऽपि समायाति तस्य दाणं 25 न' । मण्डपिकान् निर्घाट्य तं च व्यवहारकं सन्म(न्मा)न्य विसृष्टवान् । ब्राह्मणानां गुलवेडं ग्रामद्वादशसहितं ददौ । योगिवेषधरस्य यया श्रेष्ठिपत्न्या मार्गे लङ्घनत्रयान्ते करम्बो दत्तः, तस्या नाम्ना करम्बावसही कारिता, कालिङ्गिकं ना(ग्रा?)म(म) दत्तम् । मूषकद्रव्यनिक्रये उन्दिरवसही कारिता । येन कान्दविकेन[दिन]त्रयान्ते भोजितः, कम्बलिका दत्ता, तस्य ग्रामो दत्तः । उज्जयिन्यां येन मोचिकेन चरणत्राणानि दत्तान्यासन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org