________________
कुमारपालदेवप्रबन्धः ।
२१९ पश्यति । मण्डपिकां भित्त्वा शय्योपरि तावतीं पतितां शिलां वीक्ष्य कण्टकितो नृपोऽवादीत्- 'भो कपर्दिन् ! त्वयेदं कथं ज्ञातम् ?'; 'देव ! श्रीहेमाचार्यैरुक्तम्' । 'ते महात्मानः मम सारामित्थं कुर्वन्ति । अहं वेद्मि च न त[त्] । प्रादह(१)ष्टैभॊक्ष्ये ।
६६१२. इतः प्रातः श्रीहेमसूरय आकारिताः । नृपस्तु भूलुठनेनाययौ । ततः सिंहासने निवेश्य नमश्चक्रे । तैश्चाशीर्वादो दत्तः
गौः कामधुक् सवृषभा मरुदेविरम्बा कल्पद्रुमोऽरुणरुचिः स युगादिदेवः । चिन्तामणिविमलमूतिरथादिनाथः शत्रुञ्जये ददतु ते तव वाञ्छितानि ॥७॥
नृपेणोक्तम्-'प्रभो ! काऽसौ शिला ?' । उक्तं गुरुभिः-'पउतारपुत्रचाहडो यो राज्याद् दूरीकृतः स श्रीपव(र्व )ते गतः । भैरवानन्दमाराध्य तस्मात् शिलाविकुर्विणी(णीं) विद्यां प्राप । सा शिला ततश्चलिता । इतो भवतामरतिरभूत्' । साऽर्द्धप्रहरे 10 प्रा[प्ता]। नृपेणो(णो)क्तम्-'अतः परं भवद्भिर्दतं राज्यं पाल्यते । परं किञ्चिदथ विज्ञपयामि । भवद्भिः स्वधर्मः सर्वथा नोपदेष्टव्यः । भवतां धर्मे श्रुते, येन सोमेश्वरेण राज्यं दत्तं स एव त्यज्यते' । 'राजन्नस्माकं धर्मोऽधिको नास्ति' । उच्यते
अणवट्ठियस्स धम्मं मा हु कहिज्जासु सुट्ट कुसलो वि ।
कणगाउराण दुद्धं स सक्करं होइ निंबो व्व ॥८॥ ६६१३. एकदा नृपेणोक्ताः- 'भगवन् ! मे किञ्चित् कृत्यं दिशत' । ततो गुरुभिरुक्तम्-'देवपत्तने श्रीसोमेश्वरस्य प्रासादः पतितोऽस्ति, स समुद्धियताम्' । नृपेण द्विजास्तपस्विन उक्ताः-'मम नैकेनाप्युपदेशा(शो) दत्तः' । इतः प्रासादप्रारम्भे कृते श्रीहेमाचार्यैरुक्तम्-‘देव ! कोऽप्यभिग्रहो गृह्यताम्' । 'कस्य ?', 'मांसस्य' । तथाकृते सत्वरं कर्मस्थाये निष्पद्यमाने प्रासादो निष्पन्नः । नृपेणोक्तम्-'भगव[न्]! छिद्रं यच्छत' । 20 'यात्रां विना देव ! कथं छिद्रम् ?'। 'यूयमेष्यथ ?' | 'अस्माकमेतदेव प्रयोजनम्' । किं वाहनादि विलोक्यते ?'। 'तव भूरस्माकं चरणाः'। नृपश्चलितो यात्रायै । श्रीहेमसूरयोऽपि सहैव प्रस्थिताः । धवलक्कके प्राप्ते, तत्र माग्ग(ग)द्वयम्- एकः श्रीशत्रुञ्जयोपरि, द्वितीयो देवपत्तने । गुरुभिर्मुत्कलापित:-'देव ! वयं शत्रुञ्जये देवान् नन्तुं यास्यामः' । द्विजैरुक्तम्-‘चलिताः' । नृपेणोक्तम्- 'देवपत्तने समेस्य(ष्य)थ' । 'भवतां पूर्वं 25 पस्या(श्या)मः' । गुरवस्तीर्थं नत्वा पूर्व[मेव] देवपत्तने गताः । नृपेण शम्भुं नत्वा उक्तम्- 'भगवन्नभिग्रहानुग्रहं यच्छत' । 'देव ! कथमुच्छ(त्सु)काः ? यदि देवः प्रत्यक्षीभूयानुग्रहं यच्छति, तदा भव्यम्' । 'कथमेतत् भविष्यति ?' । इतो द्विजैरुक्तम्'देव ! हेमांचार्याः शिवं न नमन्ति' । 'भगवन् ! ईश: किं न नतिमर्हति' । 'देव ! पूजां
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org