SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २१८ कुमारपालचरित्रसङ्ग्रहः __ इतो नृपे मृते यो यो राज्ये स्थाप्यते, स स प्रधानैरपाकृ(क्रि)यते । एवं सिद्धराजस्य पादुके एव राज्यं कुर्वतः । एकदा प्रतापमल्लो रात्रौ वैकालिकं कर्तुं उपविष्टः । सा वेश्या परिवि(वे)षयति । नामलदेवी दीपकरा [अवा]ङ्मुखी विद्यते । तां दृष्ट्वा प्रतापमल्ल उवाच- 'रे ! वत (तव) भ्राता क्वाप्यस्ति?' तया वेश्या दृष्ट्वा । 5 तयोक्तम्-'खाणउठे प्रतिदिनं दालिं गृह्णा(ह्ला)ति' । तत्र पृ(दृ)ष्टः । तैरु[क्तम्]'राज्यप्राप्तौ देवं नन्तुं पादमवधार[य]त' । तत्रायं सङ्केतः । मध्ये मल्लौ मुच्येते । यः सुखावहो न भवति, तस्याङ्गानि टालयन्ति । ततः प्रतापमल्लेनोक्तम्-'कथमेव देवनमस्करणे आभरणैर्विना कथं गम्यते' । तत् कूटं स्थितम् । अथ माखपाटके(?) जाते प्रतापमल्लेनोक्तम्-'मम त्रयो लक्षाः प्रसादे देहि'। राज्ञोक्तम्- 'केन कारणेन?'। 'मया राज्यं 10 दत्तम्' । 'स्व(?तव)पितुवा(र्वा) मदीयस्य वा तत्'। ततः प्रतापमल्लेन प्रधानैः सह पर्यालोचितम्-'यदस्मात् जीवितसन्देहः; ततोऽसौ मार्य एव । आखेटकव्याजाद् बाह्ये नीत्वा'। इत्य(त्या)लोचे क्ष(कृ)ते प्रातर्देवो विज्ञप्तः- देव ! आखेटके गम्यते । यतः परिचयं च लक्ष( क्ष्य )निपातने भयरुषोश्च तद( दि)ङ्गितबोधनम् ।। श्रमजयात् प्रगुणां च करोति सा तनुमतोऽनुमतः सचिवीर्ययौ (?) ॥६॥ 15 इतः कालुम्भारवीअपरिसरे प्रतापमले(ल्ले)न नृपाज्ञां दत्त्वा, सर्वः कोऽपि वारितः । इतः कृष्णमृगं दृष्ट्वा नृपेणाश्व उत्थापितः । प्रधानैरुक्तम्-‘वलमानो व्यापादनीयः'। इतः कृष्णदेवो कटकं विमुच्य पृष्टौ गतः । नृपं मारितमृगं वलमान(नं) प्राह-'एनं त्यज, विधिविनष्टः । गतमात्र एव मारिष्यसे'। तथा प्रतोल्यो दत्ता[:]। अन्धकारप्रतोल्युद्घाटाऽस्ति । तस्यां प्रविश्य धवलगृहे गतः । पटी फेरिता । इतः 20 प्रतापमलो(ल्लो) भ्रातरमदृष्ट्वा तत एव तथा नष्टः, यथा पुनः शुद्धिरपि न जाता । ततः सर्वोऽपि व्यावृत्तः । ततो नृपः कुपितो दिने दिने कटमर्दात् व्यापादयितुं लग्नः । एवं दुर्ध्यानपरस्य वर्षत्रयं जातम् । ततो राज्यसलो जातः । ६६११. इत एकदा नृपस्य शरीरेऽरतिर्जाता । कथमपि निवर्त्तते न । इत रात्रौ राज्ञा कपर्दी भाण्डागारिक उक्त:- मम देहे किञ्चिदसमाधिरस्ति' । कपर्दी पौषधागारे 25 समायातः । तस्यैष निश्चयः । गुरुभिरुक्तम्-'कथमुत्सूरं, कृतम् ?' । देवस्यारतिरुक्ता । 'तर्हि त्वरितं याहि, नृपमुपरितनभूमेरध[:] समानय'। ततः स त्वरितं गतः । राज्ञोक्तम्'क:?'; 'कपर्दी'; 'कथम्?'; 'देव ! विज्ञप्तिरस्ति, अधः पादमवधार्यताम्। यावदधोभूमौ नीतस्तावदुपरि निर्घातोऽभूत् । 'किमिदम् ?' नृपस्त्व(स्तू)परि गतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy