________________
कुमारपालदेवप्रबन्धः ।
एतां दृष्ट्वा श्रीहेमसूरीणां वचो निश्चिकाय ।
६. एकदा क्वापि वृक्षतले निविष्टः । पत्रपति ( ? ) मूख (ष) केनाऽऽकृष्य द्रम्माणां शतपञ्चकं पुञ्जीकृतं दृष्ट्वा, जग्राह । स अदृष्ट्वा मृतः । नृपः पश्चात्तापपरो जज्ञे । ९६७ इत एकदा शीतार्त्तो जाबालिपुरप्रत्यासन्ने वाघराग्रामे गतः । तत्र तिहुणसिंहव्यवहरकगृहे गोजार्यां शीतरक्षायै कम्बलमेकं याचित्वा सुष्वाप । गच्छन् 5 तमेवाऽऽदाय गतः ।
२१७
§§८. क्रमेण कश्चित् व्यवहारी भार्यां नीत्वा प्रौढपरिकरेण पत्तनं प्रतिनिवृत्तः । तेन सार्थेन मिलितः । सार्थे स्थिते भोजनवेलायां सार्थपेन स्वदृष्टौ परिजनो भोजितः । योगी तथैव निरन्नोऽस्थात् । तद्भार्याऽपि उपविश्य भोक्तुं तस्य क्रूरस्य दृष्टौ दातुमक्षमा सती भोज्यं त्यक्त्वा उत्थिता । एवं द्वितीयदिने, तृतीयेऽपि । चतुर्थे दिने कस्यापि 10 ग्रामस्य प्रत्यासन्ने स्थितः । सोऽन्तर्गतः । ततस्तत्पत्नी परिवेष्य योगिनं ययौ- 'भो योगिन् ! भुज्यताम्' । तेनोक्तम्- 'भुक्ता[ : ] स्मः ' तयोक्तम् -'मा जानीथा यदहं भुक्ता । भुज्यतां यथाऽहमपि भुञ्जे' । राज्ञा चिन्तितम्- 'एषा कल्पवल्ली, स तु विषद्रुः'।
६९. क्रमेण पत्तने गतः । रात्रौ कान्दविकगृहे गतः । लोहटिकः समप्पितः । स दिनद्वयक्षुधितो न तृप्तः । कान्दविकेन प्रिया उक्ता - 'असौ योगी न तृप्तः, तथा 15 परिवेषय, आकण्ठं भोजितः । पश्चात् कम्बल्येका प्रावरणाय दत्ता |
पुन[:] भ्रमन्नेकदोज्जयिन्यां चतुष्पथे मोचिकाऽऽपणिं पादुकासन्धानाय उपविष्टः। इतः केनाप्युक्तम्- 'यत् गूर्जराधिपति [ : ] मृत:' । तत् श्रुत्वा उन्मना [अ]भूद्। मोचिकेन ज्ञातम् - कोऽप्येष नृपसगीतनः । ततः पृष्टवान् - 'नृपः किं वो भवति ?' तेनोक्तम्- 'न किमपि परं राज्ञो [मृत्योः ] दुःखं कस्य न स्यात् ? ' । भ्रान्त्वा 20 पत्तने प्रविष्टः ।
१०. इतः पत्तने भगिनीपतिः प्रतापमलो (लो) महासाधनिकः, तेन जाकरण्येका गृहे समानीता । तया पणबन्धः कृतः - 'यदन्याः सर्वाः प्रियाः पितृगृहे प्र(प्रे)ष्या[:]'। तेन तथाकृते कुमारपाल भगिनी नामलदेवी पितृगृहमदृष्ट्वा समयज्ञा तस्याश्चरणयोः पपात । तयोक्तम्- 'किमिदम् ?' तयोक्तम्- 'मम त्वमेव पितृगृहम्; तव 25 दासीसमा स्थास्यामि' । तयोक्तम्- 'स्थीयताम्' । इतः कुमरिको भगिनीमेत्य प्राह- 'अहं बुभुक्षया म्रिये । मम दशां पश्य । भगिन्या उक्तम्- 'मम भ्राता भवान् ?' । तया वेश्योक्ता - 'मम भ्रातुर्दालिमुष्टेरादेशो दीयताम्' । तथाकृते सति नित्यं नित्यं दालिं खाणउठे गृह्णाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org