________________
२१६
कुमारपालचरित्रसङ्ग्रहः व्रजत, अस्त्येव' । इतो राज्ञा चिन्तितम्
मृग-मीन-सज्जनानां तृण-जल-संतोषविहितवृत्तीनाम् ।
लुब्धक-धीवर-पिशुना निष्कारणवैरिणो जगति ॥४॥ एवं चिन्तयन् निरसनो दिनत्रयमस्थात् । तृतीयदिनरात्रौ भाण्डागारिककपर्दी 5 पौषधागारे समायातः । परिजनं बाह्ये स्थाप्य नमस्कारं कृत्वा उपविष्टः । गुरुभिरुक्तम्'कोऽप्यस्माभिर्भवबलाद् यदन्यायः कृतस्तत्र किम् ?' तेनोक्तम्-'न सम्भाव्यते ।' 'भविष्यति चेत् ?' 'तदा वारयितुं क्षमः' । उक्तम्- 'कुमरिकः स्थापितः' । 'किं तेन नृपापथ्यकारिणा ?'। 'असौ कालेन महाप्रभावको भावी; परं दिनत्रयं निरशनस्य जातम्' । ततो द्वारमुद्घाट्य स्ववेषं परिधाप्य गृहं नीत्वा मासे यावच्छन्नं स्थापितः । इतः 10 पत्रदौःस्थ्ये सति नृपेन(ण) भाण्डागारिक उक्त:-'त्वं याहि, मार्गसौस्थ्यं कुरु' ।
भाण्डागारिकेणान्यकरभी शोधिता(?) । स्वयं तथैव स्थितः । बहिर्नीत्वा योजनविंशति प्रान्ते मुमोच ।
88४. स भ्रमन् कान्ती[नगरी गत]स्तत्र सरसि तटे प्रासादे शिर: पूज्यमानं दृष्ट्वा पप्रच्छ–'किमेतत् शिरः पूज्यते ?' देवार्चकेनोक्तम्-'अत्र सरसि तष्क(स्क)रस्य शिर: 15 केनापि नि[:] कृत्य क्षिप्तम् । तदनु तत् प्रातः घातटं (प्रात)रिदं ब्रूते-'बुडति' [ज]वात्
उक्त्वा पुनः प्रातर्वक्ति । नृपेणामात्याः पृष्टास्तैश्च पण्डिताः । तैर्मासो याचितः । मुख्यपण्डितः स्वगृहे सूत्रं कृत्वा निर्ययौ । अटवीं भ्रमन्नेकस्मिन् कोटरे रात्रो स्थितः । तत्र वृक्षे भूता[:] सन्ति । लघुभिरुक्तम्-'ता[त]अस्माकं [क्षुधा'। जाता] तेनोक्तम्'दिनत्रयान्तरं यास्यति' । 'कथं ?' प्रत्यासन्नपुरे [नृपेण] पण्डिताः शिरसो वाक्यं पृष्टाः, 20 ते जानन्ति, नरेन्द्रस्तान् सकुटुम्बान् व्यापादयिष्यति' । तै[:] पृष्टम्-'तात ! किं
कारणम् ?' निर्बन्धे कृते उक्तम्-‘लोभन ब्रुडति' । तत् पण्डितेन श्रुतम् । गृहमायातः । मासश्रा(प्रा)न्ते नृपेणाऽऽहूतस्तेन सरस्तीरे गत्वा उक्तम्- 'यदि ला(लो)भेन ब्रुडति, तदा पुनर्न वाच्यम्' । शिरस्तथैव स्थितम् तं (तत्र) नृपेण प्रासादः कृतः । अतो मध्ये शिरः
पूज्यते' । 25 ६५. ततः कुडनेश्वरप्रासादे श्रीसिद्धसेनदिवाकरेण स्वयं लिखितां गाथां ददर्श
पुण्णे वाससहस्से सयंमि वासाण नवनवइ अहिए । होही कुमरनरिंदो तुह विक्कमराय ! सारिच्छो ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org