________________
कुमारपालदेवप्रबन्धः ।
२१५
६२. एकदा तपश्वि (स्वि) वेषधरः केनापि नृपाय निवेदितः । मार्ग्यमाणो न दृष्टः । सज्जनकुलालेन कच्चकोठीमध्ये नीवाहे प्रक्षिप्य राजपुरुषेभ्यो रक्षितः । तज्जायया उक्तम्-'रक्ष रक्ष, असौ ते चित्रकूटं दास्यति' । अथ निःसृत्य नष्टः ।
६३. पुनरेकदा तपश्चि( स्वि) वेषधरः पत्तनं प्रविष्टः । अनादिराउलमठे प्रविष्टः । तत्र भ्रमन्नेकदा श्रीहेमाचार्याणां पो ( पौ) षधागारे प्रविष्टः । व्याख्याने जायमाने 5 कमलिकोपरि भरितवेष्टनं दृष्टम् । तेन चिन्तितम्- 'याचिष्येऽमुं जटावेष्टनाय, पर (रं) दास्यन्ति न वा इति वक्तुं न शक्नोति । ऊर्ध्वं दृष्ट्वा श्रीहेमाचार्यैनि (र्निर्व्यञ्जनमालोक्य उक्तम्–‘क्षुल्लक ! राजपुत्रार्थे पट्टं मुञ्च' । तेन सक्रोधमुक्तम्- ' अहं राउलो वा राजपुत्रो वा ?' गुरुभिरुक्तम्- 'उत्स (त्सु) को मा भव । यदा भविष्यसि तदा राजानं भणिष्यामि' । तेन स्वजटाभिः पदौ प्रमार्ज्योक्तम्- 'कदा [ स उ ] ष्णो वासरो भावी ?' । तदा 'संवत् 10 ११९९ वर्षे मागसिरवदि ४ रवौ तव राज्यम्' - पत्रिकाऽप्पिता । 'परं निकटा आपदस्ति, शीघ्रं मे पौषधागारे समागन्तव्यम् ।
इतः केनापि नृपा [य] तपश्वि (स्वि) वेषो मठस्थो निवेदितः । राज्ञा तपश्वि(स्वि) नो निमन्त्रिताः । अनादिराउलस्तपश्वि (स्वि) सप्तशत्या भोजनाय गतः । इतः तपश्वि (स्वि) नां पार्श्वयोः खड्गधरा नराः स्थापिताः । तेषामिदमुक्तम्- 'यस्य तपश्वि - 15 (स्वि) नोऽहं पादौ क्षालयन् विमुच्य उपरि यामि स [ मा]रणीय एव' । इतस्तस्य पदक्षालने नृपश्चरणलक्षणं ललाटं चालोक्य विमुच्य 'निर्विण्णोऽहम्' । पुरोहितं तत्र ने (नि) युज्य उपरि गतः । तद्भाग्यात् सञ्ज्ञा सुभटानां विस्मृता । ततः कुमरिक एक करं उदरे दत्त्वा, एकं मुखे [दत्त्वा ] पित्तप्रकोपव्याजान्नष्टः । इतः श्रीमाचार्या भुक्तोत्तरं द्व ( द्वा) रमुद्घाट्य ऊर्ध्वाः सन्ति । सोऽपि पौषधागारे प्रविष्टः । उपवरकान्तः प्रक्षिप्य 20 गुरुभिस्तालकं दत्तम् । पश्चान्नृपः कलकलमश्रुत्वा पत्तीन् हक्कयामास । भरटिका विस्मृता: । ' रे ! रे ! विलोकयत तम्' । अश्ववाराः प्रसृताः । श्रीहेमाचार्यपौषधागाररथ्यायां समायाताः । एकेन हट्टिकेन महेश्वरिणा पृष्टाः - 'किमवि (व) लोक्यते ?" तैरुक्तम्- ‘कुमरिकः' । तेनोक्तम्- 'श्वेताम्बराणां पौषधागारेऽस्ति' । तत्र गताः । नतिपूर्वं हेमाचार्याः पृष्टा: - 'अत्र कुमरिकः कथ्यते ।' 'तं न विद्मः । कोऽपि भिक्षुको द्वारं प्रेर्य 25 प्रविष्टोऽस्यां निःश्रेण्यां अधिरुह्य गतः । ते गताः । पुनभ्र ( ) मन्तो रथ्याद्वारे समायाताः । तेन वणिजा उक्तम्–‘कुमरिकं' [कथं] नापर्य (र्पय)त?' तैरुक्तम्- 'विलोकयत'। सोऽपि राजपुरुषैः सह शोधितुं प्रवृत्तः । तालकं दृष्टम् । 'अमुमपाकुरुत, इहाऽऽस्ते'। पूज्यैरुक्तम्'असौ राजपाटकवास्तव्यस्य व्यव० धरणिगस्य भाण्डशाला । ततः कुञ्चिकामानीयोद्घाटयत' । राजपुत्रैरुक्तम्- 'कस्तत्र गत आयातो वा ?, चलत' । स कथयति - 'मा 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org